SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ टीकासहितः। विषयविरतिः संगत्यागः कषायविनिग्रहः । शमदमयमास्तत्त्वाभ्यासस्तपश्चरणोद्यमः। नियमितमनोवृत्तिभक्तिर्जिनेषु दयालुता भवति कृतिनः संसाराब्धेस्तटे निकटे सति ॥ ततो जनयित्रीमनापृच्छयैव तस्यैव यतेश्चरणांते तपो' जग्राह । मातापि पुत्रशोकादार्तध्यानपरायणा परासुरासीत् । तदनु मगधदेशमध्यवर्तिनि विकटाटवीपरिवेष्टिते मंगलनाम्नि शिलोच्चये पुरोक्षाव्याघ्री किलाजनिष्ट । यः खलु पुत्रादावभीष्टे मृते नष्टे प्रबजिते शोकमुपगच्छति तस्यावश्यं दुर्गतिर्भवति । यदुक्तं मृत्युर्गोचरमागते निजजने मोहेन यः शोककृ नो गंधोपि गुणस्य तस्य बहवो दोषाः पुनर्निश्चितम् । दुःख वर्धत एव नश्यति चतुर्वर्गो मतेविभ्रमः पापं रुक् च मृतिश्च दुर्गतिरथ स्याद्दीर्घसंसारिता ॥ अथ कदाचित्तौ सिद्धार्थसुकोशलाभिधानौ यतीशौ तस्मिन्नेव व्याघीसमुपवेष्टिते मंगलपर्वते मासचतुष्टयपर्यंतमनशनमादाय योगं च गृहीत्वा तस्थि. वांसौ । अथ चतुर्थमासेषु व्यतीतेषु तौ योगं निष्टाप्य पारणार्थ कांचनपुरीमुपसरतावंतराले तामेव व्याघ्रीं व्यलोकिषातां । इयं पापिष्ठा दुष्टानिष्टं करिष्यतीति संन्यासमादाय शुक्लध्यानमवलंब्य तस्थतुः । इतश्च सा व्याघ्री घोरतररूपा प्राग्जन्मसंस्कारजनिततीवकोषोत्तालज्वलनज्वालकराला गिरिकुहरान्निर्गत्य तन्मुनियुगं चखाद । तौ शुक्लध्यानबलेन निजनिरंजनशुद्धात्माभिमुखपरिणामपरिणतांतःकरणौ सर्वार्थसिद्धिमीयतुः ॥ इति सुकोशल कथा ॥ ४९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy