SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ २८६ योगशास्त्र अत्रान्तरे श्लोकःहेमाद्रिः पर्वतानां हरिरमृतभुजां चक्रवर्ती नराणां शीतांशुर्योतिषां स्वस्तरुरवनिरुहां चण्डरोचिग्रहाणाम् । सिन्धुस्तोयाशयानां जिनपतिरसुरामर्त्यमाधिपानां .. यहत्तबद्दतानामधिपतिपदवौं यात्यहिंसा किमन्यत् ॥ १ ॥ उक्तमहिंसाव्रतम् ॥ ५२ ॥ अथ सूनृतव्रतस्यावसरस्तञ्च नालोकविरतिव्रतमन्तरेणोपपद्यते, न च तत्फलमनुपदर्थ्यालोकादिरतिं कारयितुं शक्यः पर इत्यलोकफलमुपदर्य तहिरतिमुपदर्शयति मन्मनत्वं काहलत्वं मूकत्वं मुखरोगिताम् । वीक्ष्यासत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥५३॥ मन एव मन्तृ यत्र तन्मन्मनं परस्याप्रतिपादकं वचनं तद्योगात्पुरुषो. ऽपि मन्मनस्तस्य भावो मन्मनत्वं १ काहलमव्यक्तवर्ण वचनं तद्योगात्पुरुषोऽपि काहलस्तस्य भाव: काहलत्वं २ मूकोऽवाक् तस्य भावो मूकत्वं ३ मुख स्य रोगा उपजिह्वादयस्तेऽस्य सन्ति मुखरोगी तस्य भावो मुखरोगिता ४ एतत्सर्वमसत्यफलं वीक्ष्य शास्त्रबलेनोपलभ्यासत्यं स्थूलासत्यमुत्सृजेच्छावकः । यदाहमूका जडाश्च विकला वागहीना वागजुगुप्सिताः । पूतिगन्धमुखाश्चैव जायन्तेऽनृतभाषिणः ॥ १ ॥ ५३ ॥
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy