SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ हितीयः प्रकाशः । २८५ धरा इति कोदण्डादिधरत्वाविंसकाः हिंसकत्वमन्तरण कोदण्डादीनां धारयितुमयुक्तत्वात् कोदण्डधरः शङ्करः दण्डधरो यमः चक्रासिधरो विष्णुः शूलधरौ शिवौ शक्तिधरः कुमारः उपलक्षणमन्येषां शस्त्राणां शस्त्रधराणां च ॥ ४८ ॥ . एवं प्रपञ्चतो हिंसां प्रतिषिध्य तद्विपक्षभूतमहिंसाव्रतं लोकहयेन स्तौतिमातेव सर्वभूतानामहिंसा हितकारिणी। अहिंसैव हि संसारमरावमृतसारणिः ॥ ५० ॥ अहिंसा दुःखदावाग्निप्रावृषेण्यघनावली। भवधमिरुगा नामहिंसा परमौषधी ॥ ५१ ॥ स्पष्टम् ॥ ५० ॥ ५१ ॥ - अहिंसावतस्य फलमाहदीर्घमायुः परं रूपमारोग्यं श्लाघनीयता। अहिंसायाः फलं सर्व किमन्यत्कामदैव सा ॥५२॥ अहिंसापरी हि परषामायुर्वर्धयन्ननुरूपमेव जन्मान्तरे दीर्घायुष्वं लभते तथैव पररूपमविनाशयन् प्रकष्टं रूपमाप्नोति तथैव चास्वास्थ्यहेतुं हिंसां परिहरन् परमस्वास्थ्यरूपमारोग्यं लभते सर्वभूताभयप्रदश्च तेभ्य आत्मनः नाघनीयतामश्रुते एतत्सर्वमहिंसाया: फलं कियहा शृङ्गग्राहिकया वक्तुं शक्यते । इत्याह किमन्यत्कामदैव सा यद्यत्कामयते तत्तस्मै ददाति उपलक्षणमेतदकामितस्थापि स्वर्गापवर्गादेः फलस्य दानात् ।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy