SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ २८७ द्वितीयः प्रकाशः । असत्यं च तच्च कन्यालोकादि वक्ष्यमाणम् तदेवाहकन्यागोभूम्यलोकानि न्यासापहरणं तथा । कूटसाक्ष्यं च पञ्चेति स्थूलासत्यान्यकीर्तयन् ॥५४॥ कन्यालीकं १ गवालीकं २ भूम्यलोकं ३ न्यासापहरणं ४ कूटसाक्ष्यं च ५ एतानि पञ्च स्थूलासत्यान्यकोर्तयन् जिनाः। तत्र कन्याविषयमलोकं कन्यालोकं भित्रकन्यामभिन्नां विपर्ययं वा वदतो भवति ; इदं च सर्वस्य कुमारादिदिपदविषयस्यालोकस्योपलक्षणं १ गवालीकमल्पक्षीरां बहुक्षौरां विपर्ययं वा वदतः, इदमपि सर्वचतुष्पदविषयस्यालोकस्योपलक्षणं २ भूम्यलोकं परसत्कामप्यात्मादिसत्कां विपर्ययं वा वदतः, इदं च शेषपादपाद्यपदद्रव्यविषयालोकस्योपलक्षणं ३ अथ हिपदचतुष्पदापदग्रहणमेव. कस्मात्र जतम्। उच्यते । कन्याद्यलोकानां लोके अतिगहितत्वेन रूढत्वादिति । न्यस्यते रक्षणायान्यस्मै समयंत इति न्यासः सुवर्णादिः तस्यापहरणमपलापस्तद्वचनं स्थूलमृषावादः इदं चानेनैव विशेषेण पूर्वालोकेभ्यो भेदेनोपातं ; कूटसाक्ष्य प्रमाणीकृतस्य लञ्चामत्सरादिना कूटं वदतः, यथाहमत्र साक्षी अस्य च परकीयपापसमर्थकत्वलक्षणविशेषमाश्रित्य पूर्वेभ्यो भेदेनोपन्यासः, एतानि क्लिष्टाशयसमुत्थत्वात् स्थूलासत्यानि ॥ ५४ । एतेषां स्थूलालीकले विशेषणहारण हेतुमुपन्यस्य प्रतिषेधमाह सर्वलोकविरुद्धं यद्यविश्वसितघातकम् । यदिपक्षश्च पुण्यस्य न वदेत्तदसून्तम् ॥ ५५ ॥
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy