SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ २८४ योगशास्त्रे तन्मुग्धबुद्धिप्रतारणमात्रं न हि तिलव्रीह्यादिभिर्मत्स्यमांसादिभिर्वा परामूनां पितृणां टप्तिरुत्पद्यते । यदाह मृतानामपि जन्तूनां यदि तृप्तिर्भवेदिह । निर्वाणस्य प्रदीपस्य स्नेहः संवई येच्छि खाम् ॥ १ ॥ इति न केवलं हिंसा दुर्गतिहेतुरेव किं तु हिंस्यमानर्जन्तुभिर्विरोधनिबन्धनत्वेन स्वस्यापि इहामुत्र च हिंसाहेतुतया भयहेतुः ॥४७॥ . अहिंस्रस्य तु सर्वजीवाभयदानशौण्डस्य न कुतोऽपि भयमस्तोत्याहयो भूतेष्वभयं दद्यातेभ्यस्तस्य नो भयम् । यादृग्वितीर्यते दानं तादृगासायते फलम् ॥ ४८ ॥ स्पष्टम् ॥ ४८ ॥ एवं तावहिंसापराणां मनुष्याणां नरकादि हिंसाफलमभिहितं सुराणामपि हिंसकानां जुगुप्सनीयचरितानां मूढजनप्रसिद्ध पूज्यत्वं परिदेवयते कोदण्डदण्डचक्रासिशूलशक्तिधराः सुराः । हिंसका अपि हा कष्टं पूज्यन्ते देवताधिया ॥४६॥ हा कष्टमित्यतिशयनिदे हिंसका अपि रुद्रप्रभृतयः सुराः प्राकृतैजनैः पूज्यन्ते विविधपुष्पोपहारादिभिरचन्ते ते च यथाकथञ्चिदभ्यर्यतां नाम केवलं देवताबुद्धिस्तत्र विरुद्धा इत्याह देवताधिया हिंसकत्वे विशेषणद्वारण हेतुमाह कोदण्डदण्डचक्रासिशूलशक्ति.
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy