SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः | संवत्सरं तु गव्येन पयसा पायसेन तु । वार्षीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ ४६॥ २८३ श्रुतानुमितयोः श्रुतसंबन्धस्य बलीयस्त्वाद्गव्येन पयसा पायसेन च संबन्धो न मांसेन प्राकरणिकेन, अन्ये तु व्याख्यानयन्ति मांसेन गव्येन पयसा पायसेन वा पयसो विकारः पायसं दध्यादि पय:संस्कृते त्वोदने प्रसिद्धि: वार्षीणसो जरच्छागः यस्य पिबतो जल alf स्पृशन्ति जिह्वा कर्णौ च ॥ यदाह त्रिपिबं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वाणसं तु तं प्राहुर्याज्ञिकाः पितृकर्मसु ॥ १ ॥ ४६ ॥ पिटनिमित्त हिंसोपदेशकं शास्त्रमनूद्य तदुपदिष्टां हिंसां दूषयति - - इति स्मृत्यनुसारेण पितॄणां तर्पणाय या । मूढैर्विधीयते हिंसा साऽपि दुर्गतिहेतवे ॥ ४७ ॥ इति पूर्वोक्ता या स्मृतिर्धर्मसंहिता तस्मा अनुसारेणालम्बनेन पितरः पितुर्वंश्या: । यच्छ्रति: पित्रे पितामहाय प्रपितामहाय पिण्डं निर्वपेदिति । तेषां तर्पणाय तृप्तये मूढैरविचारकैर्या हिंसा विधीयते सापि न केवलं मांसलोभादिनिमित्ता दुर्गतिहेतवे नरकाय न हि खल्पाऽपि काचिहिंसा न नरकादिनिबन्धनं यत्तु पिढवतिप्रपञ्चवर्णनं
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy