________________
७१४
काव्यमाला।
विजयनामा सूरिस्तस्य पादोपान्ते चरणसमीपे नीत्वा आनीय अस्तोकान् बहून् बन्दीलोकान् कारागारनिक्षिप्तजनान् प्रोज्झांचक्रे वन्दीतो निष्करदण्डान् कृत्वा मुत्कलान् मुश्चति स्म । क इव । देहीव यथा भव्यजीवस्तीर्थे श्रीशत्रुजये अन्यतीर्थे वा अंहोव्यूहा. निजदुरितसंघातान्मुञ्चति निष्पापो भवेत् ॥
प्रणम्य ते प्रभोः पदानवीवदन्निदं मुदा ।
मुनीन्द्र नन्दताच्चिरं सुवर्णसानुमानिव ॥ २०७ ॥ . ते बन्दीलोकाः प्रभोहीरसूरेः "दान् । पूज्यत्वाद्बहुवचनम् । चरणान्प्रणम्य खखशिरसा संस्पृष्ट्वा मुदा प्रमोदेन कृत्वा इदमेवंविधमवीवदन् अतिशयेन बाढखरेण वा वदन्ति स्म । इदं किम् । हे मुनीन्द्र चिरादस्माकं कारागारनरकुहकनिपातिनामुद्धार-. कारक त्वं गुरो, चिरं गलितावधिसमयं यावन्नन्दतात् समृद्धिमान् भव जीव चिरस्थायी भव । क इव । सुवर्णसानुमानिव । यथा मेरुगिरिः कल्पवृक्षादिसमृद्धिमांस्तथा शाश्वतस्थायुकोऽस्ति तथा त्वमपि भूयाः ॥ इति बन्दीमोचनम् ॥ :
उत्थाय निशीथिन्यां प्रभुपार्धात्पक्षिणां विमुक्तिकृते।
डावरसरसि स गतवान्धनविजयं सार्धमादाय ॥.२०८ ॥ सोऽकब्बरसाहिः प्रभुपार्थात् श्रीहीरविजयसूरीन्द्रस्य संनिधानादुत्थाय पक्षिणां केलिकुतूहलकृते खयंरक्षितानां विविधविहंगमानां विमुक्तिकृते खयमेव विमोचनार्थ धनविजयनामानं सूरिसचिवं सार्ध स्वेन सममादाय सूरीणां बिम्बार्थ गृहीत्वा डावर. नाम्नि सरसि तटाके गतवान् जगाम ॥ पक्षिणस्तत्क्षणात्क्षोणिचक्रेन्दुना पञ्जरेभ्यो विमुक्ताः समस्ता अपि । प्राप्तवन्तः स्वनीडट्ठमान्धन्विना कार्मुकेभ्यः शरव्यं पृषत्का इव २०९ क्षोणिचक्रेन्दुना मेदिनीमण्डलचन्द्रेण पञ्जरेभ्यः पक्षिरक्षणकाष्ठमयादिस्थानकेभ्यः तत्क्षणात्सरोगमनानन्तरकालं निशीथिन्यां वा विमुक्ता मोक्ष प्रापिताः सन्त: मुकुलीकृताः सन्तः समस्ताः सर्वेऽपि पक्षिणो नैकजातिशकुन्ताः स्वनीडट्ठमान् निजालयकुलायस्थानद्वमान् प्राप्तवन्तः समाश्रितान् केषांचित्स्थानतरवः परेषां तु भाविनः भाविनि भूतोपचारस्तु वर्तते एव । के इव । पृषत्का इव । यथा धन्विना धनुर्धरेण कार्मुकेभ्यः कोदण्डेभ्यः पृषत्काः शराः क्षिप्ताः सन्तः शरव्यं लक्ष्यं वेध्यं प्राप्नुवन्ति ॥.
तेऽपि पत्नीपरीरम्भिणो भाषितैर्बिभ्रतः संमदं सूरिमित्यूचिरे । त्वद्रािस्माभिरापे यथा निवृतिस्त्वं लभखाशिषा नस्तथा निर्वृतिम् २१० पत्नी खजायां पक्षिणी परीरम्भन्ते आलिङ्गन्ति इत्येवंशीलास्ते पक्षिणोऽपि संमदं बन्धनागमनात्परमानन्दं बिभ्रतो हृदि धारयन्तः सन्तः भाषितैः स्वस्वभाषाभिः सूरि हीरविजययतीन्द्रमित्यमुना प्रकारेण ऊचिरे प्रोक्तवन्तः । इति किम् । हे प्रभों, यथा