________________
१४ सर्गः) हीरसौभाग्यम् ।
च पुनः खैर चरन्तु भक्षणसंचरणादि कुर्वन्तु । त्रिष्वप्युक्तिषु मद्वत् । यथारं सुखी • वर्ते खैरं रमे स्वेच्छया चामि चरामि विलसामि च ॥ इति मृगयानिषेधः ॥
प्रागागमे प्राभृतवत्किमेषां कार्य मया चिन्तयतेति चित्ते । प्रवर्तितासौ नवरोजघस्रामारिः क्षितौ खेलनकौतुकेंन ॥ २०२ ॥ हे सूरयः, क्षितौ पृथिव्यां खेलनकौतुकेन क्रीडाकुतूहलेन कृत्वा असौ सर्वजनसाक्षाकारिणी प्रत्यक्षा वा श्रीमदुचिता श्रीमनिमितप्राभृतरूपा मया नवरोजनाम्नां घस्राणां दिनविशेषाणाममारिः कोटिकाद्यानामपि जीवानां वधनिषेधः प्रवर्तिता मया कृता मत्सेवकैश्च कारिता प्रकटीकृता वा । मया किं कुर्वता । एषां जगन्मान्यानां षट्कायगोपालानां सूरीणामागमे आगमने मनगरसमीपे समवसरणे प्राभृतवत् ढौकन मिव प्राक् पूर्व किं कार्य विधेयम् । कर्तव्यमित्यर्थः । इत्यमुना प्रकारेण चित्ते खमनसि चिन्तयता विचारयता ॥ इति नवरोजनामामारिप्रदानं गुरोः ॥
आघाटनगरक्षोणीशक्रेणेव तपा इति । द्वादशाब्दाचाम्लकर्तुजंगच्चन्द्रव्रतीशितुः ॥ २०३ ॥ यथा दफरखानेन स्तम्भतीर्थे प्रमोदतः । मुनिसुन्दरसूरीन्दोर्वादिगोकुलसंकटः ॥ २०४ ॥ गुणश्रेणीमणीसिन्धोः श्रीहीरविजयप्रभोः।।
जगद्गुरुरिदं तेन बिरुदं प्रददे तदा ॥ २०५ ॥ . तदा तस्मिन्नवसरे तेन प्रमुदितेनाकब्बरसाहिना शमदमार्जवमार्दवादीनां गुणानां श्रेण्य एव मण्यो रत्नानि तेषां सिन्धोः समुद्रस्य श्रीहीरविजयाभिधानस्य प्रभोः सूरी-न्द्रस्य अयं जगद्गुरुरिदं बिरुदं प्रसिद्धि कुनामविशेषं प्रददे दीयते स्म दत्तम् । केनेव ।
आधाटनगरक्षोणीशक्रेणेव । यथाधुना 'आहड' इति प्रसिद्धस्य मेदपाटमण्डलमण्डनस्थाधाटनगरस्य क्षोणीशक्रेण भूमीन्द्रेण राणकेन द्वादशसंख्याकानि वत्सराणि यावत् • आचाम्लानां तपोविशेषाणां कर्तुः कारकस्य जगञ्चन्द्रनानो व्रतीशितुः सूरिराजस्य • तपा इति बिरुदं ददे । पुनः केनेव । दफरखानेनेव । यथा स्तम्भतीर्थे तन्नगरनायकेन दफरनाम्ना खानेन यवनाधिपतिना प्रमोदतो हर्षातिशयतः सहस्रावधानिनो मुनिसुन्दरनाम्नः सूरीन्दोराचार्यचन्द्रस्य वादिगोकुलसंकट इति बिरुदं दत्तम् ॥ त्रिभिर्विशे. षकम् ॥ इति जगद्गुरुबिरुदम् ॥
नीत्वास्तोकान्बन्दीलोका-श्रीमत्सूरेः पादोपान्ते ।
प्रोज्झांचक्रे क्षोणीशको देहीवांहोव्यूहांस्तीर्थे ॥ २०६ ॥ . क्षोणीशकोऽकब्बरसाहिः श्रीमान् साहिविहितसंमानदानकुललक्ष्मीकलितो हीर.