________________
१४ सर्गः] हीरसौभाग्यम् । येन प्रकारेण त्वद्विरा श्रीमदीयया वाचा वचनेन अस्माभिर्निति खैरं संचारितारूपं सुखमापे प्राप्तं लब्धम् । तथा तेन प्रकारेण अम्माकमाशिषा मङ्गलशंसकवाचा त्वं निवृति मानसिकं सौख्यं मुक्तिसुखं च लभख प्राप्नुहि । प्रायोऽव्यक्तानामाशीर्वाक् फलेप्र. हिर्भवेत्तेनावश्यं त्वं निति लप्स्यसे ॥ इति पक्षिमोचनम् ॥
त्रिजगज्जनगीयमानयानुगतोऽद्वैतयशःश्रियालयें।
भरतावनिभृज्जयश्रिया पुरि चक्रीव ततः स जग्मिवान् ॥२११ ॥ ततो बन्दीमोचनानन्तरं स हीरविजयसूरिः आलये वसतौ उपाश्रये जग्मिवान् गच्छति स्म । किंभूतः । त्रिजगनने: सुरासुरनरनिकरैगीयमानया गानगोचरं नीयमानया अद्वैतया न विद्यते द्वैतं युगलं सदृशोपमानं यस्याः सा तया असाधारणया यशःश्रिया कीर्तिलक्ष्म्या अनुगतः सहितः । क इव । चक्रीव । यथा भरतक्षेत्रस्य अवनिभृतां द्वात्रिंशत्सहस्रपार्थिवानां जयत्रियानुगतः ग्रन्थकर्तुर्भरतक्षेत्रस्थायुकत्वेन भरतक्षेत्रस्यैव नामानीतम् । चक्री. चक्रवर्ती भरतादिसार्वभौमः पुरि खराजधानीनगरे गच्छति । अत्रापरं पाठान्तरमपि-'त्रिजगज्जनगीयमानयानुगतः सूरिशशी यश:त्रिया । वसति सुदृशा नवोढया परिणीतेव ततो व्यभूषयत् ॥' त्रैलोक्यलोकगीयमानया यशःश्रिया सहितः सूरिशशी वसतिमालयं व्यभूषयदलंकरोति स्म । यथा परिणेता पाणिग्रहणकर्ता नवोढया तत्कालपरिणीतया सुदृशा मृगलोचनया सहितो वसतिं वास. सौधं विभूषयति ॥ अथामारिप्रवर्तनम्- .
प्रावर्तयत्पुनर्भुवो भाखानमारिमङ्गिनाम् ।
. मूर्धाभिषिक्तवन्निजामाज्ञामशेषमण्डले ॥ २१२ ॥ . भुवो भावान् अत्युत्कटप्रतापवत्त्वेन प्रतिपक्षक्षोणीक्षिलक्षाणां कल्पान्तकालोद्दण्डचण्डमार्तण्डमण्डलवहुःसहोऽकब्बरसाहिः पुनहरिविजयसूरेरालये पादावधारणानन्तरं खयं च अशेषमण्डले खायत्तीकृतसमस्तजनपदबजे अशेषाश्च ते मण्डलाश्चाशेषमण्डलाः, अशेषमण्डलानां मण्डलमशेषमण्डलम् । 'सरूपाणामेकशेषः', सरूपाणां सदृशानां शब्दानां मध्ये एक एव शिष्यते रक्ष्यते नान्य इति एकमण्डलशब्दस्य लोपः । अथ वा मध्यमपदलोपी समासः शाकपार्थिवादिवत् । अङ्गिनां प्राणिनाममारिं वधनिषेधं प्रावर्तयत् प्रवर्तयति स्म । किंवत् । मूर्धाभिषिक्तवत् । यथा श्रेष्ठिसेनापतिसचिवपुरोहितसामन्तादिभिरभिषिक्तः सप्ताङ्गराज्याधिपतिबलन्यायशक्तिकलितः पृथ्वीपतिरशेषमण्डले निजामात्मीयपितृप्रदत्ते निखिले देशे आज्ञां प्रवर्तयति ॥
तत्र च व्यतिकरेऽटवीवियद्वारिचारियुवजानिजन्मिनाम् । संकथा विरहदाववारिमुग्मालिका इव मिथोऽत्र जज्ञिरे ॥ २१३ ॥