________________
६२६
काव्यमाला।
टबद्धभूपानामिव सार्वभौमस्य तथा द्वात्रिंशल्लक्षविमानाधिपानां प्रभुत्वम् । अत एव साम्राज्यम् । 'सम्राट तु शास्ति यो नृपान्' इति हैन्याम् । आसाद्याधिगत्य । पुनस्त्रिलोक्या विश्वत्रयस्याधिपत्यं भर्तृभावमाशंसमानः काइन् ॥ इति सूरिदर्शनात्साहिहृदयवितर्काः॥
यावद्वितर्कानिति तर्कशास्त्राधीतीव चित्ते कुरुते क्षितीन्द्रः । निर्ग्रन्थनाथं निजसंनिकर्ष विभूषयन्तं पिबति स्म तावत् ॥.१६३ ॥ . क्षितीन्द्रोऽकब्बरसाहिः इति पूर्वोक्तप्रकारेण यावद्यावता समयेन चित्ते स्वमनस्येव' नात्मजनसमक्षवितर्कान्विचारान् कुरुते । क इव । तर्कशास्त्राधीतीव यथा तर्कशास्त्रेषु प्रमाणग्रन्थेषु अधीतमध्ययनं सम्यक् शास्त्रावबोधोऽस्यास्तीति तर्कभाषादिकचिन्तामणि. प्रमुखप्रमाणाध्येता वितर्कान् विविधान् तर्कान् कुरुते तावनिजस्यात्मनः संनिकर्ष समीपं विभूषयन्तमलंकुर्वन्तम् । निर्ग्रन्थनाथं हीरविजयसूरिं पिबति स्म सादरमवलोकयति स्म । सादरावलोकनं पानमुच्यते ॥
सुत्रामगोत्राधिकगौरवेण मार्गे मया संभ्रमगामिनासौ । दुरूढभूभोगिविभुर्विषादी मा स्तादितीर्वात्वरया चरन्तम् ॥ १६४ ॥
सूरिं किं कुर्वन्तम् । अत्वरया न वेगेन मन्दं मन्दं चरन्तम् 1 उत्प्रेक्ष्यते-इति हेतोः । इति किम् । सुत्रामगोत्रान्मेरोरधिकं गौरवं गुरुता माहात्म्यं यस्य तादृशेन मार्गे पथि संभ्रमगामिना औत्सुक्यादिना त्वरितगमनशीलेन । 'आवेगस्तु त्वरिस्तूर्णिः संवेगः संभ्रमस्त्वरा' इति हैम्याम् । मया दुःखेन कष्टेन ऊढा सहस्रफणामण्डलैर्विधृता भूर्येन तादृशो भोगिविभुः शेषनागो विषादोऽस्यास्तीति विषादी विषण्णचेता निवेदवान्वा मा स्तान्मा भवतादिति ॥
इमे चले मेचकिमाङ्किते च तदौचिती रो मदःप्रचारम् । . नेत्रे क्षिपन्तं किमिति प्रमातं युगंधरायां पुरतो धरायाम् ॥ १६५ ॥ पुनः किं कुर्वन्तम् । पुरतः पुरस्तादग्रतः प्रमातं प्रमाणीकृतं युगंधरं कूबरं रथस्य वृषभस्य स्कन्धनिक्षेपणस्य योग्यं काष्ठविशेषं धूसरमिति जने प्रसिद्धं यस्यां तादृश्यां धरायां पृथ्वीपीठे नेत्रे नयने क्षिपन्तं स्थापयन्तम् । उत्प्रेक्ष्यते-इति हेतोः किम् । इति किम् । इमे नेत्रे चले चञ्चलखभावे च पुनर्मेचकिमाङ्किते अन्तःश्यामताकलिते। मलिनाशये इत्यर्थः । तत्तस्मात्कारणात् अदःप्रचारमेतयोः प्रसारं रोद्धमौचिती यो. ग्यता । उपचितमेवेत्यर्थः ॥
दण्डं खपाणौ दधतं स्वबाहाजितं भजन्तं किमु कल्पसालम् । कल्पं मुनीनामिव मूर्तिमन्तं कल्पं निजाङ्गे पुनरुद्वहन्तम् ॥ १६६ ॥ पुनः किं कुर्वन्तम् । स्वपाणौ निजवामहस्ते दण्डं यष्टीं दधतं धारयन्तम् । उत्प्रे