________________
१३ सर्गः
हीरसौभाग्यम् ।
१२७
क्ष्यन्ते-खबाहया निजभुजेन जितं पराभूतम् अत एव भजन्तं सेवमानं यो येन जितः प्रायस्तं स सेवते । कल्पसालमिव कल्पद्रुममिव । पुनः किं कुर्वन्तम् । निजाङ्गे आत्मीये शरीरे कल्पं यतीनां शरीरावरणयोग्यवत्रविशेषं 'कलपडो' इति प्रसिद्धः । उद्वहन्तं बिभ्रतम् । उत्प्रेक्ष्यते-मूर्तिमन्तं शरीरशालिनं मुनीनां सुसाधूनां कल्पमाचारमिव ॥ बुधैर्न दोषाकरवंशजातैर्मरालयानैर्न च नाभिजातैः । प्रत्यर्थिभिश्चित्तभुवो न रुद्रनिग्रन्थनाथैरनुगम्यमानम् ॥ १६७ ॥ पुनः किं क्रियमाणम् । अनुगम्यमानम् अनु पश्चाद्रज्यमानम् । कैः। निर्ग्रन्यनाथैः वा. चकपण्डितगणिचरलक्षणश्रमणपुङ्गवैः । किंभूतैः । बुधैः रोहिणीनन्दनैः पुनर्न दोषाकरवंशजातैः चन्द्रगोत्रजन्मभिः । अयं तु विरोधः-ये बुधास्ते तु दोषाकरवंशजाता एव स्युः । विरोधशान्तौ तु बुधा विद्वांसस्तथा दोषाणामपगुणानामाकरः खनिर्यो वंशस्खत्र जाता न तर्हि विशुद्धवंशजन्मानः । निर्दोषपितृपक्षा इत्यर्थः । पुनः किंभूताः । मरालो राजहंसस्तेन यानं गमनं येषां ते। हंसवाहनाः च पुनर्न नाभिजाता न ब्राह्मणाः । अयमपि विरोध:-ये मरालयानास्ते तु नाभेर्नारायणनाभिपुण्डरीकादेव जाताः । विरोधशान्तौ तु हंसवन्मन्थरगमनाः । ईर्या शोधनात् । तथा द्वौ नत्री प्रकृत्यर्थ गमयतः । मौलाथै प्रापयतः । ततः न न अभिजाताः कुलीना एव । अथ वा न अभिजाता न कुलीनाः । एवं नद्वितीयेन नकारेण अकुलीनत्वनिषेधो निगद्यते। एवं सति कौलीन्यमायातम् । तैरेतावता विशुद्धमातृपक्षरित्यर्थः । 'जाइ संपन्ना कुलसंपन्ना' इति सिद्धान्तोतिः। पुनः किंभूताः । चित्तभुवः कंदर्पस्य प्रत्यर्थिभिवैरिभिः परं न रुदैन भीमैरीश्वरैः । अयमपि विरोध:-ये कामरिपवस्ते तु रुद्राः शिवा एव स्युः । विरोधशान्तौ तु त्यतसर्वसांसारिककान्ताद्यनुषगत्वान्मनोभवाभिरातिभिः शान्तरसतरङ्गितानितान्तःकरणत्वान्न रुदैः। सौम्यरित्यर्थः ॥
एकं किमद्वैततया जगत्यां कुमुद्वतीकान्तमिव द्वितीयम् । तृतीयमक्ष्णोरिव चन्द्रचूडब्रह्माच्युतानामिव वा चतुर्थम् ॥ १६८॥
पुनः किंभूतम् । जगत्यां भुवनमध्ये भरतक्षेत्रभूमौ वा अद्वैततया गुणैरसाधारणत्वेन नास्त्यस्य तुल्यः । तादृक्कोऽप्यन्यो नास्ति येन सा उपमीयते इति हेतुना एकं किम् । 'जगती मेदिनी रसा' इति हैम्याम्। 'भुवनं जगती जगत्' इत्यपि हैम्याम् । तथा 'जगती विश्वभूमयोः' इत्यनेकार्थेऽपि । पुनर्द्वितीयं कुमुद्वतीकान्तं चन्द्रमिव जगदाबादकत्वात् । च पुनरक्ष्णोर्नेत्रयोस्तृतीयम् । यथा जनानां नेत्राभ्यां भौमादिमार्गः प्रकाश्यते तथा तेनापि नेत्रीभूतेन भविकानां वर्गापवर्गादिमार्गो ज्ञाप्यते इति तृतीयं नेत्रम् । वा पुनः चन्द्रचूडः शिवः, ब्रह्मा विधाता, अच्युतो नारायणः, तेषां मध्ये चतुर्थमिव त्वपरतीर्थकैरे त्रयो देवाः सेव्यन्ते, तथा अयमपि गुणबाहुल्यात्खपरतीर्थकैरुपास्यते । अतस्तच्चतुर्थमिव ॥