________________
१२४ .
काव्यमाला । विश्वत्रयीमीक्षितुमुत्सुकेन त्रैरूप्यभाजेव शिवाङ्गजेन । शक्तित्रिकेणेव वपुष्मता वानुगम्यमानस्तनुजत्रिकेण ॥ १५६ ॥ विभाव्य विस्मेरविलोचनाम्भोरुहेण तं साहिजलालदीनः । ज्ञानेन शक्रः कतिचित्पदानि ज्ञाताङ्गजन्मानमिवाभ्यगच्छन् ॥१५७॥ महतां मुद्गलेन्द्राणां जलालदीन इति यवनभाषया प्रसिद्धं नामोच्यते । साहिजला- . लदीनः अकब्बरपातिसाहिपुंगवः विस्मरेण हर्षोत्फुल्लेन विलोचनाम्भोरुहेण नयनकमलेन विभाव्य दृग्गोचरीकृत्य कतिचित्कानिचनापि तदानीमभ्यगच्छन्संमुखमागच्छन्ति स्म । क इव । शक्र इव । यथा सौधर्मेन्द्रो ज्ञानेनावधेरुपयोगेन अवधिचक्षुषा ज्ञाताङ्गजन्मानं श्रीमन्महावीरदेवं विलोक्य खर्गे खसभायामेव कतिचित्सप्ताष्टौ पदानि क्रमान्यावत्संमुखं गच्छति स्म । साहिः किं क्रियमाणः । आद्य एकः शेखजी, द्वि.. तीयः पाटी, तृतीयो दानीयार इति नानां तनूजन्मनां त्रिकेणानुगम्यमानः । उत्प्रे.. क्ष्यते-विश्वत्रयीं त्रैलोक्यं ईक्षितुं द्रष्टुं विलोकयितुमुत्सुकेन उत्कण्ठितेन अत एव त्र. याणां रूपाणां भावस्त्ररूप्यं तद्भजतीति त्रैरूप्यभाजा रूपत्रयीकलितेन शिवायाः पार्वत्या अङ्गजेन नन्दनेनेव एतावता खामिकार्तिकेनेव । अथ वा वपुष्मता शरीरमाश्रयता शक्तीनां प्रभुत्वोत्साहमन्त्रलक्षणानां त्रिकेणेव वा ॥ युग्मम् ॥
सूरिं दयाधर्ममिवाङ्गिजातमवन्तमङ्गीकृतकाययष्टीम् । तं गोचरं लोचनयोः प्रणीय मीमांसते स्मेति हृदा महीमान् ॥१५८॥ तं हीरविजयनामानं सूरि भयरकं लोचनयोः खनयनयोर्गोचरं विषयं प्रणीय कृत्वा । विलोक्येत्यर्थः । महीमानकब्बरपातसाहिहुंदात्ममनसा इत्यमुना प्रकारेण मी. मांसते म विचारयति स्म। 'मीमांसा तु विचारणा' इति हैम्याम् । सूरिस्तूत्प्रेक्ष्यते--अङ्गीकृता उपात्ता काययष्टी तनूलता येन तादृशमविजातं प्राणिगणमवन्तं खजीवमिव रक्षन्तं दया कृपा जगजन्तुषु कारुण्यं तद्रूपं धर्ममिव ॥ . विपक्षभावं कलयन्तमुग्रं प्रियां खमृत्याममृतां रतिं च । निर्णीय निर्विण्णमनास्तनूमांस्तपः प्रपन्नः किमु शम्बरारिः ॥ ११९॥ उत्प्रेक्ष्यते-अयं सूरिस्तपः संयमक्रियानुष्ठानोपवासादिकष्टं प्रपन्नः अधिगतः कुवाणो वा शम्बरारिः स्मर इव। किंभूतः। तनूमान् विनाङ्गं तपोऽनुष्ठानादि कर्तुं न शक्नु यादित्यङ्गीकृतकाययष्टीः। अथ वा पार्वतीपरिणयनप्रक्रमानन्तरं सर्वसुरासुरात्यर्थाभ्यर्थनाप्रसन्नीभूतभूतपतिना कायः प्रादायि इति कुमारसंभवोकेस्तदादिशरीरं संजातमिति कायकलितश्च । किंलक्षणः शम्बरारिः । तपःप्रतिपत्तो कारणमाह-निर्विण्णं खेदखिन्नं मनश्चित्तं यस्य । किं कृत्वा । विपक्षभावं वैरितां कलयन्तं बिभ्राणम् अग्रं महाक्रूरं नित्रिंशं वा तत्त्वतः शंकरम् । तथा खमृत्यावपि त्रिनेत्रनेत्रज्वलदनलज्वालाभस्मीभू