________________
१२६
१३ सर्गः] हीरसौभाग्यम् ।
तावत्तदैव तस्मिन्नेव काले भूजम्भभिदा पृथिवीपुरंदरेण अकब्बरसाहिसभायाः ख. पर्षदो मध्यमुत्सङ्गोऽभाजि समाश्रीयते स्म । सभायां समागत इत्यर्थः । केनेव। भानुमतेव । यथा भास्करेण तदैव तस्मिन्नेव वासरे दिवो व्योनो मध्यमाश्रितम् । एतावता मध्यंदिनावसरोऽपि जात इत्यर्थः । तावत्किम् । यावद्यथा यस्मिन्नेव समये प्रस्तावे उचिते प्रदेशे कर्णराजन्यभवने स सूरिर्वल्भां भोजनमाचाम्लं विधत्ते करोति । कर्तुमुप. विशतीत्यर्थः । किं कृत्वा । इत्यमुना प्रकारेण शेखस्य वचो वाक्यं श्रुत्वा आकर्ण्य । इति फिम् । हे गुरो, अधुना इदानीम् । युष्माकमित्यध्याह्रियते। वल्माया अशनस्यावसरः बभूव संपन्नः । तत्कारणात् क्वापि कुत्रापि उचिते अस्माकं यवनानां समन्यनुचितं हिन्दुवर्गगृहे श्रीमतामाहारकरणयोग्ये पदे स्थाने वसत्यादौ वा गत्वा सा वल्भा विधीयतां क्रियताम् । यत्कारणाद्बुद्धिमद्भिः पण्डितैः अल्पं स्तोकं भाटकमात्रं दत्त्वा अङ्गात्स्वकायात्सकाशात् तपःक्रिया अनुष्टानादिधों गृह्यते। कथम् । बहु घनतमं यथा स्यात्तथा । कस्मादिव । पात्रादिव । यथा सुपात्राय साधवे स्वल्पमात्रादिकं दत्त्वा तस्माद्बहु स्वर्गापवर्गादिकमादीयते । यतः 'दानपात्रमधमर्णमिहैकग्राहि कोटिगुणितं दिवि दायि' इति नैषधेऽपि ॥ युग्मम् ॥
धर्मोदयस्येव मुहर्तमात्मगोष्ठीविधानावसरं विभाव्य । महीमहेन्द्रस्तमथाजुहाव मुनीन्द्रमिन्द्रावरजोर्जितश्रीः ॥ १५४ ॥
अथ स्वस्यां सभायामागमनानन्तरं महीमहेन्द्रो भूमीन्द्रोऽकब्बरसाहिस्तं खयं गुर्ज. रमण्डलादाहूतं मुनीन्द्रं सूरिराजमाजुहाव आकारयामास । स किंलक्षणः । इन्द्रस्य पु. रंदरस्यावरजो लघुभ्राता कृष्णः । 'कानुजे मम निजे दनुजारौ जाग्रति खशरणे रण. चर्चा । यद्भुजाङ्कमुपधाय जया शर्मणा स्वपिमि वीतविशङ्कः ॥ इति नैषधे । 'दासाईः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजाः' इति हैम्यामपि । तद्वदूर्जिता प्रबला श्रीलंक्ष्मीर्यस्य । किं कृत्वाजुहाव । स्वस्यात्मनः अकबरसाहेरात्मनः गोष्टीविधानस्य सूरिणा समं धर्म्यवार्ताकरणस्यावसरं समयं विभाव्य विलोक्य । विज्ञायेत्यर्थः । उत्प्रे. क्ष्यते-धर्मोदयस्य श्रीमजिनधर्मस्याभ्युदयस्य मुहूर्तं वेलामवसरमिव ॥
शेखस्ततः साधुविधुं विशुद्धधर्मोपदेष्टारमदःसमाजम् । स्वसाधकस्यान्तिकमिष्टदेवं सिद्धिप्रदो मन्त्र इवानिनाय ॥ १५५ ॥ ततः साहेराकारणानन्तरं शेखोऽबलफैजः साधुविधुं वाचंयमचन्द्रमदःसमाजमकबरसभामानिनाय आनयति स्म । 'अदःसमित्संमुखवैरियौवत-' इति नैषधे । अदःशब्दस्य समासविधानम् । किंभूतं साधुविधुम् । विशुद्धो निर्दोषो यो धर्मो दयामूलजिनाज्ञापूर्वकस्तस्योपदेष्टारं सम्यक् विविच्च वक्तारम् । क इव ।मत्र इव । यथा साध्यसद्गुरुदत्तसप्रत्ययमन्त्रः खस्यात्मनो मन्त्रस्यैव साधकस्याराधयितुः अन्तिकं समीपमिष्टदेवं मन्त्राधिष्ठायकसुरमानयति । किंभूतो मत्रः । सिद्धरिष्टाभिलषितस्य प्रदो विभ्राणयिता ॥