________________
काव्यमाला। यदास्यतोऽभ्यर्थयितुं विभूषांभरं त्रियामादयितात्मदर्शी ।
तन्नित्यसेवाविधये कपोलपालीद्वयीभावमिवाभजेताम् ॥ १२९ ॥ . . त्रियामादयितो निशापतिः चन्द्रस्तथा आत्मदर्शी दर्पण एती द्वावपि तस्य देवीवदनस्य नित्यमहोरात्रमविरहितं सेवायाः पर्युपास्तविधये प्रकाराय । करणार्थमित्यर्थः । कपोलयाल्योर्गण्डस्थल्योः । 'कपोलपालीजनितानुबिम्बयोः' इति नैषधे । द्वयी द्वितयी यामलं तस्या भावं तत्स्वरूपताम् । उत्प्रेक्ष्यते-अभजेताम् भेजतुरिव । किं कर्तुम् । यदास्यतो देवीबदनात् विभूषाभर शोभासमुदयातिश्यसभ्यर्थयितुं याचितुम् ॥
कपोलभित्तौ मृगनाभिपङ्कश्चित्रीकृतोऽस्या मकरश्वकासे । यद्वेश्मनोऽदृश्यतनोरनङ्गतयात्मयोनेरिव लक्ष्म लक्ष्यम् ॥१३० ॥ यस्याः शासनदेवतायाः कपोलो गण्डस्तद्रूपायां भित्तो कुज्ये मृगनाभेः कस्तूरिकायाः पड़ेः कृत्वा चित्रीकृत भालेल्यता प्रापिको मकरो मत्स्यविशेष: लोके 'मगर' इति प्रसिद्धः । चकासे शोभते स्म । 'कपोलपत्रान्सकरात्सकेतुः । 'कपोले पत्रवलीरूपान्मकरात्' इति तद्वृत्तिः । उत्प्रेक्ष्यते-आत्मयोनेर्मकरध्वजस्य लक्ष्यं जनदृग्गोचरं लक्ष्म केतनं चिहमिव । किंभूतस्य आत्मयोनेः । यद्वेश्मनो यैव शासनदेवतैव वेश्म वासभवनं यस्य । पुनः किंभूतस्य । अनङ्गतया अशरीरत्वेन शंभुना भस्मीकृत्य नामशेषीकृतत्वात् अदृश्या न नयनगोचरीभूता तनुः शरीरं यस्य ॥ इति कपोल: ॥. हिरण्यगर्भः प्रणयन्सुरी तां विद्मोऽरविन्दं वदनीचकार । मरन्दलुभ्यन्नयनद्विरेफौ न चेद्भवेतां कथमन्यथास्मिन् ॥ १३१ ॥ वयमेवं विनः जानीमः उत्प्रेक्षामहे वा । हिरण्यगर्भः विधाता । 'हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि' इति हैम्याम् । तां जिनशासनाधिष्ठात्री सुरी प्रणयन् घटयन् सन्नरविन्दं प्रफुल्लत्पनं वदनीचकार तस्या मुखं कृतवान् । एवं चेन्न तर्हि अन्यथा अपरप्रकारेण अरविन्दव्यतिरेकेण अस्मिन्नानननलिने मरन्दार्थ मकरन्दपानकृते लुभ्यन्तौ लोलुपीभवन्तौ नयने लोचने एव द्विरेफौ भ्रमरौ कथं केन प्रकारेण भवेताम् ॥
स्फुरन्महोगोचरिताखिलाशौ भूपाविवास्या भवतः स्म नेत्रौ। अधारिषातां कथमातपत्रे पक्ष्मोपंधे मूर्धनि चेन्न ताभ्याम् ॥ १३२॥ अस्याः सुधाशनसारङ्गलोचनाया नेत्रौ नयने भूपाविव राजानाविव भवतः स्म संजाती। स्फुरता सर्वत्र प्रसरता महसा तेजसा गोचरिता खदर्शनविषयीकृता । दृष्टेत्यर्थः । अ. खिलाः समस्ता अपि आशा दिशो याभ्यां तो। स्फुरद्भिः प्रत्यर्थिपार्थिवसार्थासाभाव प्रदधद्भिः महोभिः प्रतापैः । स राशिरासीन्महसाम्' इति नैषधे । 'महसां प्रतापानाम्' इति तद्वत्तिः । गोचरीकता व्याप्ताः समग्रा अपि हरितो याभ्यां भूपाभ्याम् । एवं चेन तर्हि राजभावमन्तरेण ताभ्यां नेत्राभ्यां मूर्धनि निजोपरिमस्तके पश्मोपधेर्नेत्ररोमच्छलादातपत्रे द्वे छत्रे कथं केन प्रकारेणाधारिषातां विकृते ।