________________
८ सर्गः] हीरसौभाग्यम् ।
असूयया खीयपराभविष्णुं दृशं यदीयां प्रविभाव्य भृङ्गाः । स्पधी न दध्मोऽथ वयं कदाचिदितीव चक्रुः कजकोशपानम् ॥१३३॥ भृङ्गा भ्रमराः इति हेतोः कजानां कमलानां कोशानां कुड्यलाना मुकुलानां पानमन्मकरन्दधीतिम् । 'धीतिः पाने' इति हैम्याम् । 'धेद पाने' अस्य धातोः रूपम् । धानं धयनं धीतिः । पानं कुर्वन्ति स्म कोशपानं शापथमिव चक्रुः कृतवन्तः । इति किम् । पूर्व तु यदभूत्तत्तु जातमेव । अद्यतनाद्दिनादारभ्य वयं त्वया समं स्पर्धा सहर्ष कदाचित्कस्मिन्नपि समये न दध्मो धारयामो न वहामो वा । स्पर्धा न कुर्म इत्यर्थः । किं कृत्वा चक्रुः । यदीया देवीसंबन्धिनी दृशं दृष्टिमसूयया भृङ्गाणां मानसे संस्पधिताम्वधार्य तदुद्भूतभूरितमेय॑या कृत्वा खीयामात्मीयां पराभविष्णु पराभवशीला प्रविभाव्य समीक्ष्य ॥
सारैर्दलैः शासनदेवतायाः प्रणीय नेत्रे इव पद्मयोनिः। शेषैरशेषैर्दलिकैरकार्षीत्पुनश्चकाराम्बुजखञ्जरीटान् ॥ १३४ ॥ पद्मयोनिर्ब्रह्मा । 'जनकायोनिजरुहजन्मभूसूत्यणादयः' इति हैम्याम् । पुनर्द्वितीय. वार शेषेरुदत्तरशेषैः सकलैः सारेतरदलिकैर्वस्तुवैः कृत्वा चकोरान् ज्योत्स्नाप्रियान् अम्बुजानि कमलकुवलयकुमुदादीनि सलिलजन्मानि तथा खक्षरीटान् खञ्जनान् लोके 'गङ्गेटिवा' इति प्रसिद्धानकार्षत्करोति स्म । किं कृत्वा। प्रणीय निर्माय । कैः । कर्मतापनः । उत्प्रेक्ष्यते-सारैः सर्वविशिष्टभूतैः अशेषद्वेषिसंताननिर्जित्वरैर्दलैरद्वैतद्रव्यैः शासनदेव. ताया जिनमताधिष्ठायिकायात्रिदश्याः किमु नेत्रे कर्णान्तायतलोचने इव कृत्वा ॥ -
जेया त्रिलोक्येव शरैस्त्रिभिस्तच्छेषा द्विकाण्डी किमिति स्मरेण । त्यक्ताथ सा पद्मभुवा कृतार्थीकृतेव देव्या नयने प्रणीय ॥ १३५ ॥
अथ पश्चान्मदनधनुर्धरेण त्यजनानन्तरं सा कृत्यबन्धत्वेन क्षिप्ता त्यक्ता द्विवाणी द्वयोर्वाणयोः समाहार इति पद्मभुवा पङ्कजजन्मना विधिना देव्याः शासनदेवताया नयने विलोचने प्रणीय विधाय कृतार्थीकृता सफला विहितेव । सा का । या द्वयोः काण्डयोः समाहारो द्विकाण्डी द्विशरी । 'बाणे पृषक्तविशिखौ खगगर्धपक्षाकाण्डाशुगप्र. दरसायकपत्रवाहाः' इति हैम्याम् । बाणद्वयमित्यर्थः । इति हेतोः स्मरेण विषमायुधधानुष्केण त्यक्ता उज्झिता । इति किम् । त्रयाणां वर्गपातालभूमण्डललक्षणानां लोकानां समाहारस्त्रिलोकी एव त्रिभुवनमेव जेया पराभवनविषयीकरणीया । नापरा मम जेतुं योग्या त्रिलोकी । सा तु त्रिलोकी त्रिभिरेव पत्रिभिर्मया जेष्यते तर्हि शेषा पश्चसु शरेष्ववशिष्टा द्विवाणी किमिति किं कार्यार्थ केवलं भारभूतेव । न किंचित्कृत्यकृते तेनोज्झिता ॥