________________
सर्गः
हीरसौभाग्यम् । कीरसपाटिकाभिः शुकचत्रुभिः अहमेवं शङ्के विचारयामि । उत्प्रेक्ष्यते वा-इति हेतोहिया लजया अनिशं निरन्तरं दिवा रात्रावपि न्यकृतेनीचैःकरणस्य केतवेन कपटेन कृत्वा खमात्मानं गोप्यते गुप्तीक्रियते छन्नो रक्ष्यते इव । इति किम् । एतत्पुरः एतस्या नासिकाया पुरस्तान्मम श्रीः का । न कापीत्यर्थः । किं कृत्वा । सम्यग्लक्षणोपे. ततया जगनिरीक्ष्यां त्रिजगजनैर्विलोकनीयां यस्या देव्या नासिका वीक्ष्य ॥
मुक्त्वा द्विषः पञ्चमुखी प्रति स्वान्पश्चापि रोपान्स्मरधन्विनाजौ । यदङ्गवासौकसि किं निषङ्गो रिक्तो विमुक्तोऽजनि नासिकास्याः॥१२६॥ स्मरधन्विना विषमायुधधनुर्धरेण यस्या देवताया अझं शरीरं तदेव वासार्थ निवसनकृते ओको गृहं तत्र रिक्तो निखिलविशिखव्यपगमनतोच्चारणरहित: अत एव वि. मुक्तः सदनान्तःस्थापितः निषङ्गः तूणीरः । उत्प्रेक्ष्यते-अस्याः शासनदेवताया नासा गन्धज्ञा किमजनि संजात इव । किं कृत्वा । द्विषः खशात्रवस्य ईश्वरस्य पञ्चानां मुखानां समाहारः पञ्चमुखी तो प्रति । शंभोः पञ्च वदनानि सन्ति कविसमये । 'मृत्युंजयः पञ्चमुखोऽष्टमूर्तिः' इति हैम्याम् । पञ्चसंख्याकानि मुखानि प्रति आजी संग्रामे पश्चापि पञ्चप्रमाणानपि। स्मरस्य पश्चैव बाणास्तूणीरे नाधिकाः । यतः-'बाणाः पञ्च रतिप्रियाः' इति हैम्याम् । रोपान् बाणान् मुक्त्वा क्षिप्त्वा ॥
स्वमन्दिरे यद्वदनारविन्दे लावण्यलक्ष्म्या प्रकटीकृतेव । भ्रूकैतवात्कज्जलमुद्गिरन्ती प्रदीपलेखा विललास नासा ॥ १२७ ॥ नासा अर्थाजिनशासनदेवताया नासिका विललास शोभते स्म । उत्प्रेक्ष्यते-खस्यात्मीयस्य मन्दिरे निवाससदने यस्या देव्या वदनारविन्दे मुखकमले लावण्यं लवणिमा विभ्रमविलासशोभातिशयः तस्य लक्ष्म्या धिया प्रकटीकृता उद्बोधिता प्रदीपलेखा मेहंप्रिया कलिकेव । किं कुर्वन्ती । भ्रुवोलोचनयोरूर्वयो रोमपद्धत्योः कैतवाद्याजात्कअलमञ्जनमुगिरन्ती खशिखायाः सकाशात् भ्रूश्यामिकाञ्जनं प्रादुःकुर्वन्ती ॥ इति नासिका ॥ निजप्रतिद्वन्द्विविधंतुदस्य निरीय भाग्याभ्युदयेन वात्। ' पुनस्तदातङ्कितचेतसेव यद्गण्डभूयं विधुनानुसते ॥ १२८ ॥ विधुना चन्द्रेण यस्या देव्या गण्डभूयं गल्लभावः कपोलरूपता अनुसने आश्रिता । उत्प्रेक्ष्यते-पुनर्व्याधुव्य द्वितीयवारमपि तस्माद्विधुतुदाद्वैरिणः सकाशादातङ्को भयं संजातोऽस्मि नित्यातङ्कितं भीतियुक्तं जातं चेतो मनो यस्यैवंविधेनेव । किं कृत्वा । निजस्यात्मनः निज आत्मीयो वा प्रतिद्वन्द्वी प्रत्यर्थी यो विधुतुदो राहुस्तस्य वकान्मु. खाद्भाग्यस्य प्राचीनाचीर्णसुकृतस्याभ्युदयेनाविर्भावेन कथंचित्पूर्वपुण्यप्रकरपरिपाकव. शेन कृत्वा निरीय निर्गत्य केनापि भाग्यसंभारोदयेन वैरिवदनाद्विनिर्गत्य पुनस्तदानन· निष्पतनाशङ्कया विधुना यत्कपोलकायीबभूवे इत्यर्थः ॥