________________
३७४
काव्यमाला। मोति लभते । अपि तु न केनापीति । यतो मलयानिलो वसन्तर्तावेव नान्यतुषु ततो वसन्तौ एव कुसुमसौरभ लभते । एतद्वदनश्वासानिलस्य तु सर्व कपुष्पपरिमललम्भः तस्मात्साधिमैव प्रलयवायोः संजातः ।।।
निमीलनोन्मीलनदूषितेभ्यो नित्यं दधन्यो मधुपानुपङ्गम् । निर्वेदवान्पद्मकुमुदनेभ्यः स्थितः किमामोद इदंमुखाजे ॥ १२२ ॥ पद्मकुमुदनेभ्यः कमलकैरवकाननेभ्यः सकाशानिर्वेदवान् खेदमेदखिमनः कलितः प्राप्तोद्वेगः । उत्प्रेक्ष्यते-आमोदः परिमलः इदंमुखाब्जे शासनसुरीवारविन्दे किं स्थितः समेत्य खयं वसतीव । किंभूतेभ्य: पद्मकुमुदनेभ्यः । निमीलनं संकोचः, उन्मीलनं विकाशः । निशायां पद्मं निमीलति कैरवमुन्मीलति दिने पद्ममुन्मीलति कुमुदं निमीलति । आभ्यां कमात्संपद्विपयां दूषितेभ्यः विकार प्रापितेभ्यः । पीडितेभ्य इत्यर्थः । पुनः किंभूतेभ्यः । निसं निरन्तरं मधुपैर्मद्यपायिभिज्रमरैर्वा अनुषो । मिलनं संगमं दधयो धारयन्यः । कुर्वन्यः इत्यर्थः ॥ विश्राणयित्वेव पुरा खसारसौरभ्यमेतद्वदनाम्बुजाय । शोभासहस्रांश इतः पयोजपरन्पराभिर्गृहयांबभूवे ॥ १२३ ॥ पयोजपरम्पराभिः पद्मानामनेकाभिः पतिभिः इतोऽस्मादेव तद्वदनाम्बुजाद्देवतावदनारविन्दात् शोभाना श्रीमत्ता-सुकुमारता-सुरभिता-संपूर्णता-वृत्तता-मनोज्ञता-प्रभृतिलक्ष्मीणां सहस्रः दशशतसंख्यः अंशो भागः । 'यदि प्रसादीकुरुते सुधांशोरेषा सहस्रांशमपि स्मितस्य' इति नैषधे । गृहयांबभूवे गृहीतः । उत्प्रेक्ष्यते-पुरा पूर्व पूर्वस्मि. न्काले एतस्याः शासनदेव्या वदनं मुखमेवाब्जं कमलं तस्मै खस्यात्मनः सारे श्रेष्ठभूतं सौरभ्यं सुरभितां विश्राणयित्वेव प्रदायेव ॥ इति देवीवक्रपरिमलः ॥ व्यर्थीकृतां शक्तिमवेत्य पूषद्विषा विरक्तेनिजहेतिहातुः । तूणीरमादाय मनोभवस्य विरश्चिनास्या व्यरचीव नासा ॥ १२४ ।। विरश्चिना अस्यात्रिदश्या नासा व्यरचि चक्रे । उत्प्रेक्ष्यते-मनोभवस्य स्मरस्य तू.. जीर निषङ्गं रिकं शराश्रयमादाय गृहीत्वेव । किंभूतस्य मनोभवस्य । विरकेविरागा. न्मानसीय निर्वेदात् हेतोहेंतीनां निजप्रहरणानां हातुस्त्यजनशीलस्य । 'ओहाक् त्यागे' तृन् । हानं शीलो हाता तस्य हातुः जहातीत्येवंशीलस्य । किं कृत्वा । पूषद्विषा पूषनानः शत्रोः व्यापादकेन शंभुना । 'गजपूषपुरानङ्गकालान्धकमखासुहृत्' इति हैम्याम् । शक्ति खस्य वीर्य बलं सर्वायुधसामर्थ्य वा व्यथींकृतां निष्फलां वन्भ्यां विनिर्मितामवेत्स ज्ञात्वा ॥
यन्नासिकां वीक्ष्य जगन्निरीक्ष्यामेतत्पुरः श्रीर्मम का हियेति । शङ्केऽनिशं न्यकृतिकैतवेन वं गोप्यते कीरसृपाटिकाभिः ॥ १२५ ॥ .