________________
. ( सर्गः]
.
हीरसौभाग्यम् ।
ध्वनितं सारखरो विधीयते स कृतम् । एवं चेन्न तर्हि नितं देवीनिखनस्ताभ्यः परवादिनीभ्यः कुतोऽतिरिच्यते कस्मात्कारणादधिकीभवति ॥
यद्वाक्पुरस्तादिव पाण्डुराभिर्दिलीयते स्म त्रपया सुधाभिः । सितोपलाभिश्च तपखिनीभिस्तृणं किमादाय मुखेन तस्थे ॥ ११९ ॥ यस्या देवताचा वाचां माधुर्याद्वैततया निजनिर्जित्वरीणां वाणीनां पुरस्तादग्रे त्रपया लजया कृत्वा पाण्डुराभिर्धवलीभूताभिर्दुःखातिरेकात्पाण्डूभूय सुधाभिरमृतरसैः । उत्प्रे. क्ष्यते-विलीयते स्म विलीनमिव गलित्वा गतमिव द्रवीभावः प्रापेव । च पुनर्यस्या वाचा पुरः तपखिनीभिर्वराकीभिः दुर्बलाभिः पाण्डुराभिरपि सितोपलाभिः शर्कराभिः तपखितया । उत्प्रेक्ष्यते-मुखेन वक्रेण कृत्वा तृणमादाय गृहीत्वा किं तस्थे स्थितमिव । यद्धाचा जिता पाण्डुरीभूय अमृतं विलीय गतं सिता मुखे तृणं गृहीत्वा स्थितेति भावः ॥ इति वाणी ॥
खप्रीतिरत्योरिदमोष्ठधानोः सापत्न्यतः संस्थितिवासभाजोः । स्मरस्तदर्धे विवभाज सीमां रेखामिषात्कि विनिनीषुराजिम् ॥ १२० ॥ स्मरः कन्दर्पस्तदर्धे तयोर्निजनितम्बिन्योर्निवासस्थानकीभूताधारस्यार्धे तुल्योभय. पार्श्वयोर्मध्ये। उत्प्रेक्ष्यते-रेखाया अवरमध्यगतरेखाकारस्य मिषात्कपटात्सीमामवधिभूतभूमी विवभाज विभागीकृतवानिव विभागीकृत्य द्वयोर्दत्तवानिव वा। स्मरः किं कर्तुमिच्छुः । विनिनीषुः व्यपनेतुमिच्छुर्निवारयितुं काहुन् । काम् । आजि परस्परकलहम् । कयोः। खस्यात्मनः प्रीतिरतिनान्योः पन्योः । किंभूतयोः । इदमस्या देव्या ओष्ठो दशनच्छद एव धाम मन्दिर ययोः । अत एवः पुनः किंभूतयोः । समान एव पतिर्भर्ता ययोस्ते सपल्यौ संपन्योर्भावः सापत्यं सापन्यतः सपत्नीभावतः कृतसपत्नीकत्वादित्यर्थः । सं. स्थितौ परस्परं सम्यस्थितौ वसतिविषये विशेषेण वादं कलिम् इदं स्थानकं मदीयमिदं स्थानकं मदीयमिति क्लेशं भजतस्तयोः । खस्वस्थानाधिकस्थान लिप्सया मिथो वि. वादकारिण्योरित्यर्थः ॥ इत्यधरोष्ठमध्यरेखा ॥
तत्साधु मन्ये मलयानिलेन यदेतदीयस्वसितीबभूवे । सर्वर्तुपुष्पोद्भवसौरभस्य सौभाग्यमाप्नोति किमन्यथासौ ॥ १२१ ॥ तत्साधु मन्ये अहं कविस्तत्साधु समीचीनं मन्ये हृदि मानयामि वेद्मि यन्मलयानिलेन मलयद्रुमपरिमलसुरभीकृतमलयशैलप्रसरत्पवनेन दाक्षिणात्यवायुना एतस्या इदमेतदीयं देवतासंवन्धि यत्स्व सितं श्वासः तद्वभूवे जातम् । 'श्वासस्तु श्वसितम्' इति हैम्याम्। देवीश्वासरूपेण संजज्ञे अन्यथा तद्भवनव्यतिरेकेण असौ मलयानिलः सर्वे वा ते ऋत. वश्व सर्वर्तवः हिम-शिशिर-वसन्त-ग्रीष्म-वर्षा-शरल्लक्षणा: षडपि ऋतवः समयविशेषास्तेषां पुष्पाणि कुसुमानि तेभ्यः उद्भवेभ्य उद्भव उत्पत्तिर्यस्य तादृशं यत्सौरभं सुरभिता आमोदो ना तत्य सौभाग्यं सुभगतां माहात्म्यं वा किं कथं केन प्रकारेणा