________________
३७२
काव्यमाला।
जडीभवन्ती रिपुनिये यद्वाचा जिता हीविधुरा विपञ्ची ।
यियासया शैवलिनीशपारे तुम्बद्वयं किं बिभरांबभूव ॥ ११६ ॥ ___ यद्वाचा देवी सुधारसोगारायमान(ण)वाण्या जिताभिभूता अत एव हिया परात्पराभवोद्भूतभूरिलजया विधुरा विह्वला व्याकुला विपश्ची वीणा । शैवलिनीशस्य सरिद्भर्तुः समुद्रस्य पारे अपरपार्श्ववर्तिनि तटे यियासया मन्दाक्षलक्षीकृतत्वेनापरस्य कस्यापि खास्यं दर्शयितुमशनुवन्ती गन्तुमिच्छया। उत्प्रेक्ष्यते--तुम्बद्यं किम्। अलावुयुगलमिव विमरांवभूव धृतवतीव. । यो नद्यादिजलमुत्तितीर्घः स तुम्बकानि धरति इति रीतिः । किं कुर्वती । रिपुनिये प्रतिपन्थिपराभवने प्रतिपक्षस्य प्रतीकारकरणे जडीभवन्ती किंकर्तव्यतायाम् अतः परं मयाथ किं करणीयमिति कार्यकरणविषये मन्दिमानं मूढतां दधाना । खशात्रवं प्रतिकर्तुमशक्नुवन्तीत्यर्थः ॥
श्रवःसुधायै जगतां यदीयवाचे पिकेन स्पृहयालनेव । अभ्यस्यते भैक्षभुजा तरुभ्योऽनिशं वने पञ्चमगीतिरुच्चैः ॥ ११७॥ पिकेन कोकिलेन अनिशं निरन्तरं वने सहकारकानने । प्रायः पिकानां मनो माकन्दनिकुञ्ज एव रमते नान्यस्मिन् शाखिखण्डे । यत:-'यद्यपि दिशि दिशि तरवः परिमलमत्तालिपटलवाचालाः । तदपि स एकरसालः कोकिलहृदि हन्त जागति॥ इति । उचैरतिशयेन बाढखरेण वा पश्चमस्य पञ्चमनानो रागस्य गीतिर्गानं कण्ठकुहरान्तराने. कतानलयमूर्छनाघोलनापूर्वको ध्वनिर्वा अभ्यस्यते अभ्याससाध्यो विधीयते । यः पठन् शास्त्राभ्यासं कुरुते स बाढखरेणैव उद्घोषं कुरुते । किंभूतेन पिकेंन । तरुभ्योऽर्थान्माकन्दपादपेभ्यो भैक्षं मञ्जरीकलिकारूपं भिक्षाणां समूहो भैक्षम् । अत्र समूहार्थेऽण्प्रत्ययः । भुनक्ति अश्नातीति तेन भैक्षभुजा । उत्प्रेक्ष्यते-स्पृहयालुनेवाभिलाषुकेनेव । कस्यै । जगतां त्रिजगजनानां श्रवसां कर्णानामुपोषितानामिव पारणायै सुधायै अमृतरसभूतायै ॥
स्वरैकसारं परवादिनीभ्यः संगृह्य जाने जलजासनेन । विधीयते स्म ध्वनितं त्रिदश्यास्ताभ्योऽतिरिच्येत न चेत्कुतस्तत्॥११८॥
परवादिनीभ्यः सप्ततन्त्रीविपञ्चीभ्यः । 'साथ तन्त्रीभिः सप्तभिः परवादिनी' इति हैम्याम् । सर्ववीणासकाशात् खराणाम् 'षड्ज-ऋषभ-गान्धार-मध्यम-पञ्चम-धैवतनिषध-इति सप्तानां तत्रीभवांनां ध्वनीनाम् 'षड्जऋषभगान्धारा मध्यमः पञ्चमस्तथा। धैवतो निषधः सप्ततन्त्रीकण्ठोद्भवाः खराः ॥' इति हेम्याम् । अत्र तु वलीक्वणानामेवोपादानं मध्यादेकमद्वितीयं सारं श्रेष्ठदलम् । 'सारो मजास्थिरांशयोः । बले श्रेष्ठे च' इत्यनेकार्थः । संगृह्य संग्रहं कृत्वा गृहीत्वा वा जाने वेनि । उत्प्रेक्ष्यते वा-अहमेवं चिद्गोचरीकरोमि । जल जासनेन कमलविष्टरेण ब्रह्मणां त्रिदश्या वीरशासनदेवताया