________________
काव्यमाला। दोषामुखेन द्विषतेव वार्धी क्षिप्तं समीक्ष्य खविपक्षमर्कम् ।
शत्रोरगोत्रीभवनादिवाभ्रभुवोर्मुदाभ्राम्यत घूकलोकैः ॥ ३२ ॥ घूकलोकैः कौशिकशकुन्तसंकरैरभ्रभुवोावापृथिव्योर्मुदा खशात्रववारिजबान्धवास्तविभावनाभ्युदितप्रमोदेन अभ्राम्यत इतस्ततो बंभ्रम्यते स्म । 'आलोकतालोकमुलु. कलोकः' इति नैषधे । तथा 'आकाशे तमसि सममिते कोकलोके सशोके' इति नाटकशास्त्रेऽपि पक्षिशब्दानां पुरः समूहवाची लोकशब्दो दृश्यते, तेन घूकलोकः इति .. प्रयोगः । उत्प्रेक्ष्यते-शत्रोरगोत्रीभवनात् खीयविपक्षजगजक्षुषो वंशस्य नाम्रोऽपि वा अभावो जात इतीव मुदा भ्रान्तम् । किं कृत्वा । द्विषतेव शात्रवेनेव दोषामुखेन प्रदोषेण खविपक्षं निजप्रत्यर्थिनं भास्करं वाधौं अगाधपयोधिपयोमध्ये क्षिप्तं पातितं समीक्ष्य दृष्ट्वा ॥
कपोतपालीतटसंनिविष्टा हुंकुर्वते वापि कपोतपोताः। -
शोच्यां दशां प्राप्तमुदीक्ष्य मित्रमुदीयमानान्मनसीव दुःखात् ॥३३॥ क्वापि कुत्रापि स्थाने कपोतपाल्या विटङ्कस्य । 'कपोतपाली विटङ्कः' इति हैम्याम् । तटे एकत्र प्रान्तप्रदेशे संनिविष्टाः संस्थितिं कुर्वाणाः सन्तः कपोतपोताः पारावतबालका हुंकुर्वते हुंकारं कुर्वन्ति । कपोतानां कूजितं प्राय एवंविधमेव श्रूयते । यदुक्तं कालिदासकविना विभातवर्णनाधिकारे-'परिणतरविगर्भव्याकुला पौरहती दिगपि धनकपोती हुंकृतैः कुन्थतीव' इति । उत्प्रेक्ष्यते-शोच्या शोचनाही दशामस्तलक्षणामवस्थां प्राप्तमासादितं मित्रं सूर्य सुहृदं च उदीक्ष्य दृष्ट्वा मनसि वचेतसि उदीयमानात् प्रकटीभवतो दु:खादिव ॥
पिकाश्चुकूजुः सहकारकुञ्ज रत्या रतश्रान्ततया शयालोः ।
जगज्जयस्यावसरं जिगीषोः संसूचयन्तीव रतीशभर्तुः ॥ ३४ ॥ सहकारकु माकन्दपादपकानने पिकाः कोकिलावुकूजुः शब्दायन्ते । प्रोनिद्रसान्द्रामन्दमाकन्दमञ्जरीपुञ्जाखादनमधुरध्वनिप्रपञ्चपञ्चमगीतिमुच्चरन्ति । उत्प्रेक्ष्यते-खपत्न्या रत्या समं रतेन संभोगाभोगविनोदेन श्रान्ततया प्राप्तश्रमत्वेन सुरतसंजातखेदेन शयालोनिद्राशीलस्य । तथा जिगीषोस्त्रिजगजेतुमिच्छोः रतीशः कामः स एव भर्ता प्रभुस्तस्य जगतां तात्स्थ्यात्तद्यपदेशानाकिनागनागराणां जयस्य पराभवनप्रविधानस्यावसरं व्यतिकरं वेलां प्रस्ताव संसूचयन्ति कथयन्तीव ।यतो नक्तं प्रायः सर्वेऽपि संसारिणो जनाः स्मरवशा जायन्ते इति ॥ इति संध्यावर्णनाधिकारे सर्वविहगविरुतादिवर्णनम् ॥
समुल्ललासाभ्रपथेऽथ संध्यारागो विरागीकृतचक्रचक्रः । पञ्चेषुणा विश्वजिगीषुणेयं प्रादायि शोणीव नवोपकार्या ॥ ३५ ॥ अथ संध्यासमयाविर्भावानन्तरमत्राणां मेघानां पथे मार्गे । नभोङ्गणे इत्यर्थः ।