________________
७ सर्गः]
हीरसौभाग्यम् ।
३१५
संध्यारागः । रवेरस्तगमनानन्तरं प्रायो व्योमाङ्गणे दिशि दिशि रक्तिमा प्रादुर्भवति । संध्यासमये जातत्वात्संध्यारागः समुल्ललास सम्यग्दृश्यमानः स्फुरति स्म । किंभूतः । विरागीकृतानि वियोगव्याकुलाङ्गीभवनत्वेन सदुःखानि कृतानि चत्राणां चक्रवाकानां चक्राणि वृन्दानि येन । उत्प्रेक्ष्यते - विश्वानि त्रीणि सप्त चतुर्दश वा एकविंशतिर्वा जगन्ति भुवनानि जिगीषुणा पराभवितुमिच्छुना पचेषुणा मदननृपतिना इयमेषा संध्यारागलक्षणा प्रत्यक्षा शोणी रक्ता नवोपकार्या नवीनपटकुटी प्रादायि दत्ता । 'रचयति रुचिः शोणीमेतां कुमारितरारवैः' इति नैषधे ॥
नभोङ्गणे सान्द्रितसांध्यरागैर्बभेऽम्बुधिं शीलति हेलिबिम्बे । भर्तुर्विधोरागमने प्रणीतै रात्रिस्त्रिया कुङ्कुमहस्तकैः किम् ॥ ३६ ॥ नभोङ्गणे गगनमण्डले सान्द्रत्वं निबिडीभावः संजातोऽस्त्येषु तादृशैः संध्यायां सूर्यास्तसमये भवैः सांध्यरागैः पदे पदे पाटलाभ्रपटलैः बभे शुशुभे । कस्मिन्सति । हेलिबिम्बे मार्तण्डमण्डले अम्बुधिं समुद्रमध्यं शीलति श्रयति सति । उत्प्रेक्ष्यते - विधोश्चन्द्रमसः भर्तुः खप्राणवल्लभस्यागमने पादावधारणसमये रात्रिस्त्रिया यामिनीकामिन्या प्रणीतैः प्रदत्तैर्दिग्भित्तिगगनाङ्गणेषु वितीर्णै: कुङ्कुमहस्तकैः घुसृणद्रव्यलिप्तहस्त बिम्ब कैः किम् ॥ मज्जत्ककुप्कुञ्जरबिन्दुवृन्दारुणीभवद्व्योमसरित्तरङ्गैः ।
- अश्रेऽरुणाम्भोजर जोविमिश्रैरदभ्रसंध्या निभात्प्रसत्रे ॥ ३७ ॥ मजतां सकलवासरतपत्तपनतापसंतापिततनुतया सायं शिशिरतानिर्मितये जलकेलिकरणसमये लीलयां सलिलान्तरे बूडतां कुकुभामष्टदिशामैरावताद्यष्टदिग्गजानां बिन्दुवृन्दैः शोणमदोदककणगणैः । पञ्चम्यां हि दशायां करीन्द्राणां कपोलपालीभ्यः पाटला बिन्दवो निर्गच्छन्तीति शास्त्रे कविसमयः । तथाहि - 'भूर्जत्वचः कुञ्जरबिन्दुशोणाः' इति कुमारसंभवे । अरुणीभवद्भिः शोणिमानं प्राप्नुवद्भिः व्योमसरितो गगनगक्षयास्तरङ्गैः कल्लोलैः अदभ्राणि अनेकानि अभ्राणि संध्यासमयाविर्भवद्वर्दका (ला) नि तेषां - निभात्कपटाद व्योममार्गे प्रसत्रे प्रसृतम् । इति गर्भोत्प्रेक्षा । किंभूतैस्तरङ्गैः । अरुणाम्भोजानि कोकनदानि तेषां रजोभिः पाटलपरागैः विमिश्रैः करम्बितैः ॥
आगामुकं कामुकमक्षिलक्ष्यं प्रणीय राजानमनन्तलक्ष्म्या । अङ्गेऽङ्गरागो घुसृणैः प्रणीतः सांध्योल्लसल्लोहितिमा किमेषः ॥ ३८ ॥ संध्यासंबन्धी समुल्लसन् स्फुरन् लोहितिमा रक्तिमा । राग इत्यर्थः । भातीत्युक्तिलेशः । उत्प्रेक्ष्यते — एष दृश्यमानः प्रत्यक्षः सांध्यराग एव अनन्तलक्ष्म्या गगनश्रिया अङ्गे खतनूलतायां घुसृणैर्द्रवीभवत्कुङ्कुमैरङ्गरागो विलेपनं किं प्रणीतो निर्मित इव । किं कृत्वा । कामुकं स्वकामयितारं स्वस्यां विषये भोगाभिलाषिणमत एव आगामुकमात्मसमीपे समागमनशीलं राजानं चन्द्रं नृपं च अक्षिलक्ष्यं दृग्गोचरं प्रणीय कृत्वा । दृप्रेत्यर्थः ॥