________________
२५०
काव्यमाला ।
'पठत्यामनति' इति क्रियाकलापे । अयं हीरहनामा मुनिः सुषमां सातिशयशो भामपूपुषत् पुष्णाति स्म । अधिकं शुशुभे इत्यर्थः । क इव । जम्बूरिव । यथा श्रीमहावीर देवेनानुज्ञातं गणं साधुगच्छं धरतीत्येवंशोलो यः सुधर्मस्वामी सुधर्मनामा पञ्चमगधरः तस्य संनिधौ पार्श्वे शास्त्रमधीयानो जम्बूस्वामी सुषमां पुपोष ॥
श्रुतमत्र गणीन्दुनामुना निहितं स्फूर्तिमनुत्तरां दधैौ ।
इव शुक्तिकसंपुटान्तरे सलिलं स्वातिमिलत्पयोमुचा ॥ २ ॥ अमुना विजयदाननान्ना गणीन्दुना सूरिचन्द्रेण अत्र हीरहर्षमुनौ निहितं स्थापितमदध्यापितं सत् श्रुतं शास्त्रमनुत्तरामसाधारणीं स्फूर्ति चमत्कारकारितां दधौ धत्ते स्म । किमिद । सलिलमिव । यथा स्वातिनक्षत्रेण मिलता संगच्छमानेन पयोमुचा मेघेन । शुक्तिकयोः संपुटस्यान्तर्मध्ये निहितं जलमद्भुतामद्वैतमुक्ताकारतया स्फूर्ति विभर्ति ॥ अधिगत्य ततः श्रुतं व्रतिक्षितिभर्तुर्दधिरेऽमुना श्रियः । सुरभेः सैमिरेण सौरभं मलयोर्वीरुहकाननादिव ॥ ३ ॥
अमुना हीरहर्षमुनिना ततस्तस्माद्विजयदानाभिधानाद्वतिक्षितिभर्तुः सूरेः सकाशात् शास्त्रमय प्राप्य । 'अधिगत्य जगत्यधीश्वरादथं मुक्ति पुरुषोत्तमात्ततः' इति नैषधे । श्रियः शोभा दधिरे धृताः । केनेव । समिरेणेव । यथा सुरभेर्वसन्तस्य समि रेण मलयानिलेन मलयोर्वीरुहाणां चन्दनानां काननाद्वनात्सौरभं सुगन्धितां परिमलं प्राप्य शोभा ध्रियते ॥
स्खलति स्म न कुत्रचिद्वचोरचनास्यागमपारदृश्वनः ।
ह्रदिनीहृदयेशितुश्चलज्जलकल्लोलपरम्परा किमु || ४ |
1
आगमानां जैन सिद्धान्तानां पारं प्रान्तं दृष्टवानित्यागमपारदृश्वा तस्य । आगमपारगामिन इत्यर्थः । अस्य हीरहर्षमुनेर्वचोरचना वाक्चातुरी वचनविलासो वा कुत्रचित्कापि स्थाने न स्खलति स्म न कुण्ठीभूता । सर्वत्राप्यस्खलित प्रचारैवासीदित्यर्थः । केव । चलबलकल्लोलपरम्परेव यथा हृदिनीनां नदीनां हृदयेशितुर्हृदयनायकस्य । 'हृदयेशा प्राणसमा' इत्यादिनामानि स्त्रीभन्त्रोंर्भवन्ति । तथा — 'हृदय नायक चक्रिजिनश्रियोः' इति ऋषभ म्रस्तवे । प्राणवल्लभस्य समुद्रस्य चलन्ती दिशि दिशि प्रसरन्ती जलानां कल्लोलानां तरङ्गाणां परम्परा श्रेणी क्वापि न स्खलति । किमु अत्रेवार्थे ॥
असमानमहा दिनेशवन्मतिमांश्चित्रशिखण्डिपुत्रवत् । भटवच्चरणोल्लसन्मना विनयी यो रघुसूनुवव्यभात् ॥ ५ ॥
यो हीरहर्षमुनिर्व्यभात् बभौ । किंभूतः । असमानमसाधारणं महः प्रतापो यस्य परैः परवादिभिः परपाक्षिकैः खपाक्षिकैर्वा असहनीयप्रतापः । किंवत् । दिनेशवत् दिवस
१.-२. समिरशब्दस्य ह्रस्वमध्यस्य कोशव्याकरणाप्रसिद्धत्वेन 'समरेण' इति पाठ्यम्.