SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ .६ सर्गः हीरसौभाग्यम् । २५१ नायक इव । यथा भास्करः अन्यासह्यप्रतापो मवेत् । पुनः किंभूतः । मतिमान् कुशाप्रतीक्ष्णबुद्धिर्विद्यते यस्य । किंवत् । चित्रशिखण्डिपुत्रवद्यथा बृहस्पतिरद्वैतप्रज्ञावान् वर्तते। 'जीवश्चित्रशिखण्डिजः' इति हैम्याम् । तथा 'विचित्रवाक्चिशिखण्डिनन्दनः' इति नैषधे । विचित्रवाग्विषये चित्रशिखण्डिनन्दनो बृहस्पतिरेवेति तद्वत्तिः । पुन: किंभूतः । चरणे चारित्रे उल्लसत्प्रोल्लासेन प्रह्लादेन कलितं मनश्चित्तं यस्य । किंवत् । भटवत् । यथा-शूरो रणे संग्रामे उल्लसत्सोत्सुकीभवत्साभिलाषं वा जायमानम् । 'विग्रहमिच्छन्ति भटा वैद्याश्च व्याधिपीडितं लोकम् । मृतकबहुलं च विप्राः क्षेमसुभिक्षं च निर्ग्रन्थाः ॥ इति वचनात् । मनो यस्य । च पुनरर्थे । पुनः किंभूतः । विनयी विनयक. लितः । किंवत् । रघुसूनुवलक्ष्मणवत् । 'विनये लक्ष्मणः' इति काव्यकल्पलतायाम् । अथ वा विशिष्टः शास्त्रागमप्रोको नयो न्यायोऽस्त्यस्मिन्निति । किंवत् । रघुसूनुवद्रामचन्द्र इव । 'न्याये रामः' इत्यपि काव्यकल्पलतायाम् ॥ गिरिराज इव क्षमाधरो बुधलक्ष्मी दधदभ्रमार्गवत् । जलजासनवद्भवान्तकृद्रतधुर्यः स महोक्षवह्वभौ ॥ ६ ॥ स हीरहर्षमुनिर्बभौ भाति स्म । किंभूतः । क्षमा शान्ति निष्कोपतां धरतीति । क इव । गिरिराज इव । यथा हिमाचलः क्षमाधरः पृथ्वीधारकः कुलाचलत्वात् । यद्यपि 'कूर्मकुलाचलफणिपतिविधृतापि चलति वसुधेयम्' इति सूक्तोक्तेः 'हिमालयो नाम नगाधिराजः' इति कुमारसंभवे मेरुवा । मेरोरपि गिरिपतित्वं यथा-'पातालमाविशतु यातु सुरेन्द्रलोकमारोहतु क्षितिधराधिपतिं सुमेरुम् । मन्त्रौषधैः प्रहरणैश्च करोतु रक्षां यद्भावि तद्भवति नात्र विचारहेतुः ॥ इति सूक्तावल्याम् । क्षमाधरत्वं तु शैलत्वात्कुलगिरित्वाद्वा । पुनः किं कुर्वन् । दधत् धारयन् । काम्। बुधत्वेन चिद्वत्तया लक्ष्मी शोभाम् । किंवत् । मार्गवत् । यथा अभ्राणां मेघाणां मार्ग आकाशः । 'सुराभ्रोडुमरुत्पथोऽम्बरम्' इति हैम्याम् । बुधस्य चन्द्रपुत्रस्य ग्रहविशेषस्य लक्ष्मी श्रियं विभर्ति । 'बुधः सौम्ये कवा' इत्यनेकार्थः । पुनः किंभूतः । भवान्तकृत्संसारोच्छेदकः । किंवत् । जलजासनवत् । यथा कमलासनो ब्रह्मा भवान्तकृन्नामास्ते । पुनः किंभूतः । व्रते चारित्रे धुर्यः पञ्चमहाव्रतभारोद्धारैकधुरीणः । किंवत् । महोक्षवद्यथा ऋषभो धुरं. धरः स्यात् ॥ इति हीरहर्षगणे पठनसमयगुणवत्त्वम् ॥ तरुणी तपनात्मजन्मनो हरिदास्ते भुवि नाम दक्षिणा । किमु कस्यचनापि कोपिनो वतिनः खनिपपात शापतः ॥ ७ ॥ भुवि पृथिव्यां तपनात्मजन्मनो भानुनन्दनस्य यमस्य तरुणी गृहिणी हरिदिगास्ते । किं नाम । दक्षिणा अपाचीनाम्नेत्यर्थः । यद्यपि तरुणीशब्देन युवती कथ्यते सामान्येन गृहिण्या अप्यभिधानं दृश्यते । यथा चम्पूकथायां नलं प्रति प्रहितकिंनरेण सायं किं. नरी प्रत्युक्तम्-'अजनि रजनिः किमेतत्तरणिस्तरतीव पश्चिमपयोधौ । घनतरुणि
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy