________________
६ सर्गः) हीरसौभाग्यम् ।
२४९ अनुपमशमक्षीराम्भोधौ विलासरसं सृज
न्सितगरुदिवामन्दानन्दं दिनानि निनाय सः ॥ २१७ ॥ स नाथीदेव्यास्तनूजो नन्दनः स एव यतिनां मध्ये । 'यतिश्च यतिनि प्रोक्तः' इति शब्दाभेदे । ईश्वरो मुख्यः हीरहर्षमुनीन्द्रो दिनानि शुद्धसंयमविधिना वासरान्निनाय अतिवाहयामास । अतिक्रामति स्मेत्यर्थः । किंभूतः । श्रमणानां साधूनां भर्तुः खामिनो विजयदानसूरेः पादारविन्दनिषेवनया चरणकमलपरिचर्यया कृत्वा प्रमुदितमाह्लादयुकं जातं मनो यस्य । किं कुर्वन् । अनुपमो न विद्यते उपमा साम्यं यस्य । साधारण इत्यर्थः । तादृशो यः शमः शान्तरसाकलितपरिणामः स एव क्षीराम्भोधिर्दुग्धजलनिधिस्तत्रामन्दो बहुल आनन्दो यत्रैवं यथा स्यात्तथा विलासरसं क्रीडाखादम् । आखादोऽनुभवने । अथ वा विलासे क्रीडायां रसमनुराग सृजन् कुर्वन् । 'रसः स्वादे जले वीर्य शृङ्गारादौ दवे विषे। बोले रागे देहधातौ तिक्तादौ पारदेऽपि च ॥' इत्यनेकार्थः । क इव । सितगरुदिव । यथा सितच्छदो हंसः परमानन्दः सन् क्षीरसमुद्रे विलासरसं जलक्रीडारसं सृजति हंसानां सद्भावः क्षीरसमुद्रेऽपि दृश्यते । यथा स्नातस्यास्तुतौ-'हंसासाहतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतैः' इति ॥
• यं प्रासूत शिवाह्नसाधुमघवा सौभाग्यदेवी पुनः .. पुत्रं कोविदसिंहसीहविमलान्तेवासिनामग्रिमम् । तद्ब्राह्मी क्रमसेविदेवविमलव्यावणिते हीरयु
क्सौभाग्याभिधहीरसूरिचरिते सर्गोऽभवत्पञ्चमः ॥ २१८ ॥ इति पण्डितदेवविमलगणिना व्यावर्णिते वर्णनागोचरीकृते हीरसौभाग्यनाम्नि महाकाव्ये पञ्चमः सर्गः अभवजातः ॥
इति पण्डितदेवविमलगणिविरचितायां खोपज्ञहीरसौभाग्यकाव्यवृत्तौ श्रीविजयदानसूरिवन्दनदेशनाश्रवणवैराग्यभवनविमलाभगिन्यादिकादेशमार्गणविविधयुक्तिनिषेधनदा
गधिमननपूर्वकादेशप्रदानशृङ्गारभूपादिपरिधानवोश्वारोहणतौर्यत्रिकादिमहोत्सवपु'रःसरपुरमध्यप्रस्थानपौराङ्गनाविविधचेष्टनतन्नानाप्रकारवार्ताश्रवणोपवनवद्रुमवर्णनदीक्षाग्रहणनामस्थापनविहारादिवर्णनो नाम पञ्चमः सर्गः ॥
षष्ठः सर्गः । अथ सूरिपुरंदरान्तिके निखिलं वाङ्मयमामनन्नयम् ।
गणधारिसुधर्मसंनिधाविव जम्बूः सुषमामपूपुषत् ॥ १ ॥ अथ दीक्षाग्रहणानन्तरं सूरिपुरंदरस्य विजयदानसूरीन्द्रस्यान्तिके समीपे निखिलं समग्र वाङ्मयं शास्त्रमामनन् पठन् अभ्यसन् वा । 'ना अभ्यासे' इत्यस्य धातोर्मनादेशः