________________
४ सर्गः हीरसौभाग्यम् ।
१८५ पार्श्व आवर्तः कुण्डलनालक्षणो यस्य तादृशः शङ्खः कम्बूनां वामावर्तवतां शङ्खानां कदम्बन गणेन परिवृतः स्रवन्तीनां नदीनां पत्युभर्तुः समुद्रस्य पयःप्लवे नीरपूरे विहरति विचरति ॥
भागीरथीव यामी पुनीते भुवनत्रयम् ।
परं विशेषः कोऽप्यस्या निम्नगा न कदाचन ॥ १४० ॥ यहाह्यो यस्य वाणी भुवनत्रयं त्रैलोक्यं पुनीते त्रिजगजनान् पवित्रीकुरुते । केव । भागीरथीव । यथा गङ्गा त्रिभिर्निजै: प्रवाहः त्रिस्रोतस्त्वेन त्रिभुवनं खर्गपातालभूमीत्रयं पवित्रयति । यथा-'विवुधानन्दमन्दिरं वन्दे रसान्तरप्रौढम्' इति चम्पूकथायाम् । वि. बुधानां देवानामानन्दमन्दिरं प्रमोदनमित्यर्थात्स्वर्गमार्गप्रवृत्तम् । 'नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजैः' इत्यपि रघौ । तथा रसायां पृथिव्याम् , तथा अन्तरे खत्रे अर्थात्याताले प्रकण ऊढम्-इति चम्पूवृत्तिः । एतद्विशेषणेन त्रैलोक्येऽपि त्रिभिः प्रवाहैर्गङ्गा प्रवहतीति कविसमयः । परमस्य ब्राहृया कोऽप्यद्भुतवैभवः अस्या विशेषोऽस्ति यत्कदाचन कस्मिन्नपि काले निम्नगा निम्नं नीचैरवद्यं गच्छतीति तादृशी न, गङ्गा तु निम्नगा। अथ च यस्य ब्राह्मी सरस्वती सरित गङ्गेव त्रिभुवनं पुनीते । परं केवलमस्याः को. ऽप्याश्चर्यकारी विशेषः । यद्गङ्गा त्रिभिः स्रोतोभिः त्रिभुवनम् । इयं तु एकेन स्रोतसा बचोनैरन्तर्येऽपि स्रोतःशब्दः इति टिप्पनके । पवित्रयति निन्नगापि नेत्यर्थध्वनिः ।।
ये कर्णाभरणीबभूवुरनिशं विश्वयीजन्मिनां
सान्द्रोन्निद्रितचन्द्रिका इव शुचीचक्रुस्त्रिलोकीमपि । - यान्संस्तोतुमिवाभवद्भुजगरानिवासहस्रद्वय
स्तेषां सूरिपुरंदरः स समभूदेको गुणानां निधिः ॥ १४१ ॥ स विशुद्धक्रियोद्धारकारकत्वेन जगद्विख्यातः सूरिपुरंदरः श्रीआनन्दविमलसूरीन्द्रः तेषां विश्वाह्नादविधायिनां पूर्वोक्तविशेषणविशिष्टानां वा गुणानामेकोऽद्वितीयत्वेन निधिनिधानं समभुन् सम्यक् जातः । ते के। ये गुणा अनिशं निरन्तरं विश्वत्रयीजन्मिनां त्रैलोक्योत्पत्तिभाजां मुरासुरनगणां कर्णाभरणीबभूवुः कर्णपूरतां प्रापुः । त्रैलोक्यलोकाः सोत्कण्टमहर्निशमाकर्णयन्ति स्मेत्यर्थः । पुनर्ये गुणास्त्रिलोकी जगत्रयीमपि शुचीचक्रुः धवलयन्ति स्म । का इव । सान्द्रा नीरन्ध्रा बहला उनिद्रिताः दिवस्पृथिज्योर्विस्तृताः चन्द्रिकाश्चन्द्रज्योत्स्ना इव । यथा चन्द्रिका भुवनं श्वेतयति । पुनर्यान् गु. णान्संस्तोतुं स्तुतिगोचरीकर्तुं भुजगराट् शेषनागेन्द्र: जिद्वानां रसज्ञानां सहस्रयोर्दशशत्योर्द्वयं युगलं विंशतिशती यस्य तादृश आसीत् ॥ अश्रोत्रैः श्रोतुकामैर्भुजगपरिवृद्धैर्यज्जगद्गीतकीर्ति शब्दाधिष्ठानसृष्टयै शतदलनिलयो याचितम्तां चिकीर्षुः ।
२४