________________
१८६.
काव्यमाला।
न्याय्या नासौ मयातिक्रमितुमिह जगत्सर्गभङ्गीव्यवस्था
शक्तिं शब्दं ग्रहीतुं किमिति स कृतवानेव तदृष्टिसर्गेः ॥ १४२ ॥ स जगत्सृष्टिनिर्माणकर्मकर्मठत्वेन प्रसिद्धः शतानि शतसंख्याकानि दलानि पत्राणि यत्र तादृशं 'परं शतसहस्राभ्यां पत्रं राजीवपुष्करे' इति हैमीवचनात् कमलं निलयं गृहं यस्य । ताम्यंस्तामरसान्तरालवसतिदेवः वयंभूरभूत्' इति खण्डप्रशस्तौ । ब्रह्मा तह.. टिसर्गे तेषां नागेन्द्राणां दृष्टीनां लोचनानां सर्ग सृष्टी निर्माण एव । उत्प्रेक्ष्यते-इति हेतोः किमु शब्दं प्रहीतुं श्रोतुमित्यर्थः । शक्ति सामर्थ्य कृतवानिव। दृक्काः कृता.इत्यर्थः । इति किम् । यदिह जगति असौ मत्कृता जगतो विश्वस्य सर्गस्य मष्टेभङ्गी रचना तस्या व्य. वस्था स्थापना परिपाटी वा मयैव ब्रह्मणा का अतिक्रमितुमुल्लचयितुं न न्याय्या न यु-. क्तिमती उचिता। योग्येति यावत् । ब्रह्मा किं चिकीर्षुः । तां कर्णसृष्टिं चिकीर्षुः कर्तुः : मिच्छुः । अश्रोत्रैः श्रवणरहितैर्भुजगपरिर्दर्नागनायकैः शब्दाधिष्टानानां कर्णानाम् । 'श्रुतौ श्रवः शब्दाधिष्ठाना पेंजूषमहानादध्वनिग्रहाः । श्रोत्रं श्रवणं च' इति हैम्याम् । सृष्टथै नवीननिर्माणाय याचितोऽभ्यर्थितः सन् । किंभूतैर्नागेन्द्रः किं कर्तुकामैः । यस्य श्रीआनन्दविमलसूरेजगद्भिस्तात्स्थ्यात्तव्यपदेश इति न्यायाजगतो जनैः मुरासुरनागनागरकिंनरविद्याधरसिद्धसमाजमिथुनैः सानन्दं गीतां मधुरध्वनिभिर्गानगोचरीकृता कीर्त श्रोतुकामैराकर्णयितुमभिलषद्भिः ॥
भूरेषा किमु चन्द्रचन्दनरसैरालिप्यते सर्वतो।
दुग्धाब्धिप्रसरत्तरङ्गितपयःपूरैरिवाप्लाव्यते । क्षोदैमौक्तिकजैविलीनतुहिनैः कुन्दैरुतापूर्यते
यत्कीर्ति प्रसृतां विभाव्य विबुधैरित्यन्तरारेक्यते ॥ १४३ ॥ यस्यानन्दविमलसूरेः प्रस्तां भूमण्डले विस्तृतां कीर्ति विभाव्यालोक्य विबुधैः पण्डि. तैरित्यमुना प्रकारेण अन्तश्चित्तमध्ये आरेक्यते विचार्यते । 'रेकृङ् शकुङ् शङ्कायाम्' इत्यस्य धातोः प्रयोगः । इति किम् । एषा भूर्भूमी । उत्प्रेक्ष्यते-चन्द्रचन्दनरसैः कर्पू. राकलितश्रीखण्डनुमद्रवैः सर्वतः सर्वेष्वपि प्रदेशेषु आलिप्यते किमु ववली क्रियत इव । अथवा-दुग्धाब्धेः क्षीरसमुद्रस्य प्रसरद्भिविस्तारं गच्छद्भिस्तरङ्गितैः कल्लोलमालाकलितैर्भवद्भिस्तरङ्गाः संजाता एष्विति वा तादृशैः पयःपूरैर्जलप्लवैः उत्प्रेक्ष्यते । आप्ला. व्यत इव । खमध्यगतेव क्रियते । सर्वापि सर्वललमयी विधीयते । उताथवा मौक्तिकेभ्यो मुक्ताफलेभ्यो जायन्ते स्मेति मौक्तिकजैः क्षोदेशृणैरिव । चूर्णीकृतमुक्ताभिः पूरितेव । उताथ वा विलीनैवीभूतैस्तुहिनैर्हिमैर्वा आपूर्यते । अथ वा कुन्दैविनिद्रमुचकन्दकुसुमैर्वा आपूर्यते निर्भर म्रियते इत्यारेकाखान्ते क्रियते । 'संदेहद्वापरारेका' इति हैम्याम् । यत्र संदेहस्तत्रैव विचारः ॥ इति श्रीआनन्दविमलसरिः ॥