________________
१८४
काव्यमाला।
मृगारातिव्यालद्विरदशबरव्यूहबहुले
गिरे१ःसंचारे गहन इव सार्थः पथिजुषाम् ॥ १३७ ॥ य: श्रीसूरीन्दुरानन्दविमलसूरिसुधांशुः कली पञ्चमारककाले जनिमतां प्राणिनामा. श्रयोऽभवद्वभूव । कलौ किंभूते । तमसामज्ञानानां पापानां च स्तोमः समूहस्तेन प्रायो बहुलः । पुनः किंभूते । कुनयनानां दुर्वादिना कुपक्षिकाणां च गणैः परिवारः दारुणतमे अतिशयेन मुदृशां भयकारिणि । ते हि संगताः सन्तोऽनन्तभवपरम्परा · वर्धयन्तीति भीतिहेतवः । क इव ! सार्थ इव । यथा सार्थः जनसमुदायः गिरेः पर्वतस्य दुःखेन' संचरणं यत्र स दुःखेनोल्लयितुं शक्ये तादृशे गहने कान्तारे रविकिरणाप्रवेशे शा. खाप्रशाखाभिरेकीभूतविविधवृक्षलक्षप्रदेशे पन्थानं जुषन्ते सेवन्ते इति कृत्वा पथिजुषः पान्थास्तेषामाश्रयो विश्रामस्थानं शरणं भवति । किंभूते गहने । मृगारातयः सिंहाः, व्याला भुजगा दुष्टा गजा वा, द्विरदा: पारे हस्तिनः, शवरा भिल्लाः, तेषां व्यूहैः समूहै. बहुले निर्भरभृते । पुन: किंभूते । तमःस्तोमप्राये अन्धकारभृते। पुनः किंभूते । कुनयनानां दृष्टिविषसाणां गणर्दारुणतमे अतिभीषणे ॥
गभीरिम्णा पाथोनिधिरिद महिनापरमरु- . .
गिरिश्चेतोजन्मप्रतिभटतया वा गगनजित् ।' प्रसारै रश्मीनां सरसिरुहिणीनामिव पतिः ___पवित्रीचक्रे यो विहृतिभिरशेषा अपि दिशः ॥ १३८ ॥ यो भगवान् गभीरिम्णा गाम्भीर्येण कृत्वा। उत्प्रेक्ष्यते-पाथोनिधिः समुद्र इव वर्तते। पुनर्महिना माहात्म्येन कृत्वा महतो भावो महिमा । 'लोहितादेङित् इमन्' इति सारखतसूत्रेण इमन्प्रत्ययः । उत्प्रेक्ष्यते-अपरोऽन्यो मरुतां देवानां गिरिः पर्वतः । अन्यो मेरुरिव । वा पुनरुत्प्रेक्ष्यते-चेतासे जन्मोत्पत्तिर्यस्य स स्मरस्तस्य प्रतिभटतया शत्रुत्वेन गगनजिद्बुद्ध इव । 'बुद्धस्तु सुगतो धर्ममारलोकखजिद्धर्मराजो विज्ञानमातृकः' इति हैम्याम् । समुद्र इव गम्भीरः मेरुरिव महिमावासः । वुद्ध इव कामजेतेत्यर्थः । तथा यो गुरुर्विहृतिभिः खविहारैः कृत्वा अशेषाः समस्ता अपि चतस्रः पूर्वापश्चिमादक्षिणोत्तरालक्षणा दिशः पवित्रीचके पावनीकृतवान् । क इव । पतिरिव । यथा सरसिरुहिणीनां पद्मिनीनां पतिर्भर्ता सूर्यः रश्मीनां खकिरणानां प्रसारैर्विस्तारण: कृत्वा सर्वाशाः पुनाति पवित्रयति ॥
यो दक्षिणावर्त इव स्रवन्तीपतिप्लवे कम्बुकदम्बकेन ।
वाचंयमानां निवहेन पृथ्वीपीठे परीतो विजहार सूरी ॥ १३९ ॥ यः श्रीआनन्दविमलसूरिः पाचंयमानां मुनीनां निवहेन वृन्देन परीतः परिवृतः सन् पृथ्वीपीठे भूमण्डले विजहार विहारं कृतवान् । क इव । दक्षिणावर्त इव दक्षिणे