________________
१७८
काव्यमाला |
यस्य । येन श्रीदेवसुन्दरगुरुणा मदेन (दनेन) मुन्मोहसंभेदेन गर्वेण वा । अथ वा जातावेकवचनम् | अष्टभिर्मदैः समं माया शठता दम्भचारिता वा व्यपास्यत निरस्ता । केनेव | अहोमुखेनेव यथा प्रभातेन तिमिरेणान्धकारेण सार्धं तमखिनी रात्रिव्यपास्यते । अहोमुखेनेत्यत्रालुक्समासः, पृथक् पदद्वयी वा ॥ इति श्रीदेवसुन्दर सूरिः ॥
धूकैरर्कमिव द्विषद्भिरुदये हन्तुं परैः प्रेषितं
कंचिच्चन्द्ररुचा प्रमादविमुखं खापेऽपि दृष्ट्वा प्रभुम् । क्षाम्यन्तं गदिताखिलव्यतिकरं संबोध्य योऽदीक्षय
त्स श्रीमानथ सोमसुन्दरगुरुर्भेजे तदीयं पदम् ॥ १२३ ॥
अथानन्तरं स प्रसिद्धमहिमा श्रीमान् जगति संयमसंवेगादिगुणैः कृत्वा शोभावान् - सोमसुन्दरनामा गुरुस्तदीयं देवसुन्दरसूरि संवन्धि पदं भेजे श्रितवान् । स कः । यः श्री सोमसुन्दरसूरिः कंचिदनिर्दिष्टनामानं घातुकं घातकारिणं पुमांसं संबोध्य प्रतिवोधयित्वादीक्षयत् संघस्यादेशपूर्वकं तत्समक्षं च प्रात्राजयत् । कंचित् किंभूतम् । उ-' दये उद्गमनसमये अर्कै सूर्य घूकैः कौशिकैरिव उदये सूरिमाहात्म्य दर्शनचमत्कृतचेतोभिर्जगजनैः प्रतिपदं प्रणीतातिश्लाघाकर्णनव्यतिकरे द्विषद्भिः वैरायमाणैः परैः परपश्रीयैर्दुर्वादिभिर्वा हन्तुं गुरुं व्यापादयितुं प्रेषितं प्रहितम् । पुनः किं कुर्वन्तम् । चन्द्रोदये चन्द्रे गगनमण्डलमवगाहमाने सति जालान्तरागतसान्द्रचन्द्रिकया खापे निद्रावस्थायामपि प्रमादादनवधानताया विमुखम् । प्रमादरहितमित्यर्थः । रजोहरणेन संस्तारकं स्वस्य पार्श्व च पृष्टं च प्रमार्ज्ड पार्श्व परावर्तयन्तं दृष्ट्वा दृग्गोचरीकृत्य 'अहो अमी निद्रायामपि क्षुद्रजन्तुजातरक्षाकारिणो दृश्यन्ते, तत्कथमेते कृपापीयूषपारावाराः परेभ्यो द्रुह्यन्तो भविष्यन्ति । ततो महापातकिभिरेतद्दुष्कर्मकारणार्थ प्रेषितेन मया परलोके शुभोदर्ककाङ्क्षिणा सर्वथाप्येते महानुभावा न घात्याः, प्रत्युत रक्षणीयाः, आत्मनोऽप्यै हि कलौकिकपारलौकिक शिवाय शरणमाश्रयणीयाश्च' इति वितर्कपूर्वकं गुरुं जागरयित्वा मनोजनितमपि खापराधं पादयोर्लगित्वा क्षाम्यन्तं गर्हन्तं च । अत एव किंभूतम् । गदितः कथितः स्वस्यात्मनोऽखिलः समस्तोऽपि व्यतिकरः परप्रेषणादिकः व्यापारः समयो वा येन ॥ इति श्रीसोमसुन्दरसूरिः ॥ पट्टश्रियास्य मुनिसुन्दरसूरिशक्रे
संप्राप्तया कुवलयप्रतिबोधदक्षे ।
कान्तेव पद्मसुहृदः शरदिन्दुबिम्बे
प्रीतिः परा व्यरचि लोचनयोर्जनानाम् ॥ १२४ ॥
श्रीमुनिसुन्दरनाम्नि सूरिशके संप्राप्तया संमागतया अस्य श्रीसोमसुन्दरसूरे: परश्रिया जनानां भविकलोकानां लोचनयोनेत्रयोः परा प्रकृष्टा प्रीतिः प्रमोदो व्यरचि ।