________________
४ सर्गः]
हीरसौभाग्यम् ।
शरीरं यस्य । अत्रायं संप्रदायः - कदाचिन्नक्तं दुष्टसर्पस्य दशाद्विषवेगोद्भवन्मूर्छया घूर्णितं गुरुमालोक्य कमपि तदुपायमजानन्तं किंकर्तव्यतामूढं संघं विज्ञाय प्रभुः संघ प्रत्याख्यो- 'प्रातर्या प्रथमं काष्टभारिका समेति तन्मध्यादमुकाभिज्ञानेन विषापहारिमौषधीं गृहीत्वा धृष्ट्रा च मृदुको (मद्दशे) देया सजो भविष्यामि' इति गुरुगिरमाकर्ण्य हृष्टेन संघेन तथाकृते सज्जीभूतः प्रभुस्तदादिषड्डिकृतीः प्रत्याख्याय - युगंधर्यैव केवलमाहारमकरोदिति ॥ इति धर्मघोषसूरिः ॥
यस्माद्दिदीपे चरणस्य लक्ष्मीज्र्ज्योत्स्नेव चान्द्री शरदोऽनुषङ्गात् । सोमप्रभाख्यो जनदृक्चकोरीसोमप्रभः सूरिरभूत्पदेऽस्य ॥ १२० ॥
अस्य धर्मघोषसूरेः पदे सोमप्रभ इत्याख्या नाम यस्य तादृश: सूरिरभूत् । किंभूतः । जनानां लोकानां दृशो दृष्टयः ता एव चकोर्यो ज्योत्स्नाप्रिय प्रियास्तासां प्रह्ला दकत्वेन सोमस्य चन्द्रस्य प्रभेव चन्द्रिकेव यः । यस्मात्सूरेश्वरणस्य चारित्रस्य लक्ष्मीदिदीपे अतीव शोभितवती । केव । ज्योत्स्नेव । यथा शरदो मेघात्ययस्यानुषङ्गादाश्लेषात्संगमाच्चन्द्रस्येयं चान्द्री कौमुदी दीप्यते ॥ इति श्रीसोमप्रभसूरिः ॥ तेनापि सोमतिलकाभिधसूरिरात्म
पट्टे न्यवेशि वशिलक्ष्मिलसल्ललामम् ।
१७७
वादेषु येन परवादिकदम्बकस्या
नध्यायता प्रतिपदेव मुखे न्यवासि ॥ १२१ ॥
अपि पुनस्तेन श्रीसोमप्रभसूरिणा आत्मपट्टे खपदे सोमतिलक इत्यभिधा नाम यस्य तादृशः सूरिराचार्यः न्यवेशि स्थापितः । ' न्यवेशि रत्नत्रितये जिनेन यः' इति नैषधे । किंभूतः । वशिनां जितात्मनां श्रमणानां या लक्ष्मीस्तस्या लसद्दीप्यमानं ललामं तिलकम् । ललामशब्दो नकारान्तोऽकारान्तोऽप्यस्ति । येन सोमतिलकसूरिणा वादेषु पारे - नैयायिकादयः पारे जैनाभासाः परपक्षीयास्त एव वादिनो वादं कर्तुमुद्यतास्तार्किका वा तेषां कदम्वकस्य वृन्दस्य मुखेऽनध्यायता तूष्णीकता मौनमेव न्यवासि वासिता । कयेव । प्रतिपदेव । यथा प्रतिपत्तिथिना छात्राणां मुखेऽनध्यायता अध्ययनाभावो मुखे वा॒स्यते । ‘प्रतिपत्पठनाशिनी' इत्युक्तेः ॥ इति सोमतिलकसूरिः ॥ संस्थापितो निजपदे गुरुणाथ तेन श्रीदेवसुन्दरगुरुः सुरसुन्दरश्रीः ।
अह्रोमुखेन तिमिरेण तमखिनीव
येन व्यपास्यत समं मदनेन माया ॥ १२२ ॥ अथानन्तरं तेन प्रभुणा श्रीसोमतिलकसूरीन्द्रेण निजस्यात्मनः पदे पट्टे श्रीदेवसुन्दरगुरुः संस्थापितः । किंभूतः । देववत्सुर इव सुन्दरा जनमनोहरा श्रीः शरीरशोभा
२३