________________
४ सर्गः हीरसौभाग्यम् ।
१७९ कस्मिन्निव । शरदिन्दुविम्ब इव । यथा शरदः शरत्कालसंबन्धिनि चन्द्रमण्डले समे• तया पद्मसुहृदः सूर्यस्य कान्त्या दीप्त्या जनदृशां परा प्रीतिर्विरचय्यते। 'पुपोष वृद्धि हरिदश्वदीवितेरनुप्रवेशादिव बालचन्द्रमाः' इति रघुवंशे । हरिदश्वो भाखांस्तस्य दी. धितेः कान्तेरनुप्रवेशात्मंक्रमणालघुचन्द्रो द्वितीयां प्रारभ्य वर्धते-इति तद्वत्तिः । किंभूते मुनिसुन्दरसूरीन्द्रे चन्द्रबिम्ब च । कुवलयं भूमण्डलमुत्पलं च तस्य प्रतिवोधे बोधिबीजदेशविरतिसर्वविरतिप्रमुखप्रदाने विकाशने च दक्षे चतुरे ॥
योगिनीजनितमायुपप्लवं येन शान्तिकरसंस्तवादिह । वर्षणादिव तपर्तुतप्तयो नीरवाहनिवहेन जप्निरे ॥ १२५ ॥ येन श्रीमुनिमुन्दरसूरिणा इह शिवपुर्या भूमीमण्डले दुष्टयोगिनीभिर्दुराशययन्तरीदेवीविशेषाभिर्जनिता उत्पादिता मारेर्जनमरकस्योपलवा उपद्रवाः सन्तिकरं सन्तिजिणम्' इत्यादि शान्तिकरनाम्नः संस्तवात्स्तोत्रात्स्तुतिप्रभावा अमिरे निहता निवारिताः । केनेव । नीरवाहेनेव । यथा मेघेन वर्षणाजलवृष्टिविधानात्तपतॊग्रामसमयस्य तप्तय. तापा निहन्यन्ते ॥ . बाल्येऽपि रदमीन्सरसीजबन्धुरिवावधानानि वहन्सहस्रम् । अष्टोत्तरं वर्तुलिकानिनादशतं स्म वेवेक्ति धियां निधिर्यः ॥ १२६ ॥ यो मुनिमुन्दरसूरिौल्येऽपि शैशवे क्षुल्लकत्वेऽपि अष्टाभिरधिकं वर्तुलिकानां कच्चोलिकानां 'वाटका कचोली' इति प्रसिद्धानां निनादानां शब्दानां शतं वचित्सहस्रमपि वेवेक्ति पृथक् पृथक् कृत्वा कथयति म्म । पत्तनसमागतैरभुक्त देशोपेतपण्डितद्विजं . पत्रावलम्बनं विधाय प्रतिपत्तनपण्डितस्थानं जलभृतकुण्डलकं तृणपूलकं च स्खशिष्य मौचयन्तं तच्छिष्यनिद्वटिनपूर्वकं मुनिमुन्दरशिशुना राजसभायां स्वेन सार्थ समाग
तचतुरशीतिपा(?)पधशालासत्काचार्यादे जायमाने षण्मास्यन्ते राजकथनपूर्व खाद. याष्टोत्तरशतवतुलिकानां पृथक् पृथक् शब्दान् कथायेत्वा तं विजिग्ये । पदप्रणम्रीचके
चेति भावः । किंभूतः । धियां विशिष्टबुद्धीनां निधिर्निधानम् । किं कुर्वन् । सहस्रं दशशतीमवधानानि वहुप्रकारधारणाविशेषान् वहन् बिभ्रत् । क इव । सरसीरुहबन्धु• 'रिव । यथा भाखान् वाल्येऽपि रदमीन् सहस्रं रश्मीन् वहते धारयति ॥ __ अलम्भि याम्यां दिशि येन काली सरस्वतीदं विरुदं बुधेभ्यः ।
वेरुदीच्यामिव तत्र तेजोऽतिरिच्यते यत्पुनरत्र चित्रम् ॥ १२७ ॥ येन श्रीसुन्दरमूरिणा याम्यां दक्षिणस्यां दिशि अयं काली सरखती इदमेतद्विरुदं नाम विशेषोऽलम्भि प्राप्तम् । केभ्यः । बुधेभ्यः दाक्षिणात्यपण्डितेभ्यः । पुनर्यदु[दीच्यामुतरस्यां दिशि रवे नोरिव तत्र दक्षिणस्यां दिश्यपि अस्य सूरेस्तेजः प्रतापः । एत. स्योत्तरमद्य न: समजनि त्वत्तेजसां लवने साहस्रैरपि पङ्गुरद्दिभिरभिव्यक्तीभवन्भानुमान्' इति नैषधे । तेजसा प्रतापानां लक्नेऽतिक्रमणे-इति तद्वृत्तिः । अतिरिच्यते