________________
१७६
काव्यमाला। य: श्रीधर्मघोषसूरिः पुष्पकरण्डिन्यामुजयिन्याम् । 'उजयिनी स्याद्विशालावन्ती पुष्पकरण्डिनी' इति हैम्याम् । तिष्टतीति पुष्पकरण्डिनीस्थस्तं कमपि सिद्धचेटकपेटकमत एव दुष्टचेष्टितैभयंकरप्रकारैः साधूनां भापने भयोत्पादने बद्धकक्षं सजीभूतं कोऽपि साधुस्तं प्रतिकर्तुं न शक्नोति अतएव तद्भयकरणप्रकारमाह-प्राक् साधुविहारनिषेध गुवागमने च गोचरीगतसाधूनां प्रश्ने स्थास्यथ । गुरुशिक्षितस्तरुक्तम् । स्थिताः स्म । ततो महत्कुद्दालतुल्यदन्तानदर्शयद्योगी । साधवः कपोणिकां दर्शयित्वा गुरुपायं गताः । तत उपाश्रयेऽपि अतिभयंकरप्रचुरोन्दरविडालकुक्कुरशृगालश्वापदवृश्चिकभुजगादिदर्शनादिना गुरुमपि भापनोद्यतं प्रभुणा च जैनमन्त्रस्मरणानुभावेन पुरजननृपतच्छिष्यसमक्षं. ' मन्त्राधिष्टायकेन बद्धा पुरप्रासादशिखरसंघटनास्फालनपूर्वकं पनघृष्यमाणप्रवहन्छोणितशरीरं शिघ्या अहं म्रिये म्रिये कोऽपि मामवत्विति पुनः पुनदीनभाषिणं वेदनया । पूकुर्वाणं गगनेनोपाश्रये नीतं योगिनं पदावननं खचरणयोनमनशीलं विदधे कृतवान् । के. इव । अर्हनिव । यथा अन्तिमश्वरमश्चतुविशतितमोऽर्हन् जिनः श्रीमन्महावीर देवः अस्थिकग्रामस्थायुकश्रुतपाणिनामानं यक्षं खचरणसेवापरायण चके । सोऽपि किंभूतः । दुष्टेजीवप्रणाशनकरश्चेष्टितैरुपसर्गर्भगवतो भापनोद्यतम् (?) ॥
यस्योपदेशान्नुपमन्त्रिपृथ्वीधरश्चतुर्भिः सहितांमशीतिम् । ज्ञातीरिवोद्धर्तुमिदंमिताः स्था व्यधापयत्तीर्थकृतां विहासन् ॥ ११८ ॥ यस्य श्रीधर्मघोषसूरेरुपदेशाद्वाचा नृपस्य मालवमण्डलपतिमण्डलं पाचलस्थपातिसाहेमन्त्री प्रधानः पृथ्वीधरः लोकोक्त्या च पेधडदे इति नामा चतुर्भिः सहितां युतामशी. तिमेतावता चतुरशीतिं तीर्थकृतां श्रीजिनानां विहारान् प्रासादान् व्यधापयत्कारितवान् । उत्प्रेक्ष्यते-इदंमिताः प्रासादसंख्याश्चतुर्विंशतिप्रमाणाः स्वाः खकीया; वणिक्संबन्धिनीचतुरशीतिज्ञातीरुद्धर्तुं संसारानिस्तारयितुमिव । तथा तस्योपदेशाच्च श्रीशत्रुजयगिरिनारिसंघपतीभवन् रैवतगिरौ च इदमस्माकं तीर्थमिदमस्माकं तीर्थमिति मिथो दिगम्बरैः सह विवादे 'य इन्द्रमालां परिधत्ते तस्येदं तीर्धम्' इति संघवृद्धः प्रोक्ते सुवर्ण सिद्ध्यानायेन खकृतसुवर्णषट्पञ्चाशदूटीभिः इन्द्रमालां परिहितवान् , तथा शजयोजयन्तमूलप्रासादशिखरदण्डयोरेकसौवर्णध्वजाधिरोपणादिना चाष्टौ घटीर्व्ययितवांश्चेति शेषः ।।
दंशादहेाहितकाष्ठभारविषौषधीसज्जतनुर्निशान्ते । महात्मवद्यो विकृतीविहाय वृत्तिं व्यधादेव युगंधरीभिः ॥ ११९ ।।
यो धर्मघोषसूरिः युगंधरीभिरेव वृत्तिमाहार व्यधात् । अन्यधान्यप्रत्याख्यानं चकारे. त्यर्थः । किं कृत्वा । घृतादिकाः षड्कृितीविहाय सक्त्वा विमुच्य । किंवत् । महात्मवत् । यथा महात्मा सुजनोविकृतीः परद्रोहादिप्रकारान् पिशुनता वा विजहाति । किं. भूतः । अहेर्भुजङ्गमस्य देशाद्भक्षणात् निशान्ते रात्र्यवसाने प्रभाते ग्राहिता श्राद्धपाच समानायिता या काष्टभाराद्विषस्यौषधी वली विषापहारिणी लता तया सना निविपा तनुः