________________
काव्यमाला ।
यस्याः समेचकिमचूचुकचचुरेण
व्यभ्राजि शुभ्रिमभृता स्तनयोयेन । यन्मानसाश्रयनिवासिरतीशरत्यो
विप्रो विनोदमधुपाङ्ककुमुद्युगेन ॥ २० ॥ प्रेम्णा प्रणेतुमजरामरतां प्रसद्य
विश्राणितेन विधिना कुसुमायुधेन । रौप्येण नीलदृषदां दधता पिधानं
पीयूषपूर्णकलशीयुगलेन किं वा ॥ २१ ॥ . यस्या गुर्विण्याः स्तनयोयेन व्यभ्राजि शुशुभे । किंभूतेन । सह. मेचकिम्ना श्यामलत्वेन वर्तेते ये ते समेचकिमनी कृष्णत्वकलिते तादृशे चूचुके स्तनवृन्ते ताभ्यां चनुरेण मनोहारिणा । पुनः किंभूतेन । शुभ्रिमाणं पाण्डुरतां विभीति । तत्र वयमेवं विद्मः । उत्प्रेक्षामहे वा । यन्मानसं नापीचित्तं तदेवाश्रयः स्थानं गृहं वा तत्र निवसनशीलयो रतीशरत्योः स्मरतद्भार्ययोः विनोदार्थ क्रीडाकृते मधुकरा भ्रमरा अङ्के कोडे सन्त्यस्येति तादृशा कुमुद्युगेन कैरवद्वयेनैव किं वा । अथ वा प्रसद्य प्रसन्नीभूय विधिना ब्रह्मणा कुसुमायुधस्य मदनस्य विश्राणितेन प्रदत्तेन रौप्येण राजतेन रजतसंबन्धिना पीयूषपूर्णेन अमृतभृतेन सुधारसपरिपूरितेन कलशीयुगेन कुम्भीद्वयेनेव । कुम्भकलशशब्दौ पुंस्त्रीलिङ्गे । 'अवलम्बितकर्णशष्कुलीकलशी कं रचयन्नवोचत' इति नैषधे । कलशीयुगेन किंकुर्वता । नीलषदां हरिन्मणीनां पिधानं दधता विभ्रता । किं कर्तुः दत्तेन । प्रेम्णा पितामहत्वस्नेहेन अजरामरतां जरामरणरांहित्यं प्रणेतुं कर्तुम् ॥ युग्मम् ॥
पीनस्तनद्वयममेचकितं पयोभि___ स्तस्याः क्षणं क्षणमपूर्यत गर्भवत्याः। सान्दै रसैरिव विकस्वरकैरविण्याः
कोशद्विकं विशदिमश्रियमुद्वहन्त्याः ॥ २२ ॥ तस्या गर्भवत्या गुर्विण्याः पीनं पुष्टं तथा अमेचकितं पाण्डुरीभूतं स्तनद्वयं कुचद्वन्द्वं क्षणं क्षणं पयोभिः स्तन्यैः । दुग्धैरित्यर्थः । अपूर्यत पूर्ण जायते स्म । निभृतं नियते स्म । किमिव कोशद्विकमिव । यथा विकस्वराया विकसनशीलायाः । 'प्रभातेऽम्भोजिनीवासि कि चाकस्माद्विकस्वरा' इति पाण्डवचरित्रे । कैरविण्याः कुमुदिन्याः मुकुलयुगलं क्षणं क्षणं सान्द्रहलैर्घनै रसैर्मकरन्दैः संपूर्यते । किं कुर्वत्याः कैरविण्याः । विशदिनः श्वेततायाः श्रियं शोमां तस्या अप्यर्थध्वनिः । विशदिना सतीत्वेन । 'असूर्यपश्या राजदाराः' इति वचनात् । नैर्मल्येन पावित्र्येण वा युक्तां श्रियं लक्ष्मीमिन्दिरां वा उद्वहन्त्या बिभ्राणायाः॥