________________
३ सर्गः]
।
हीरसौमाग्यम् ।
ध्याह एव विकसनशीलानि 'विपोरियां' इति लोके प्रसिद्धानि । 'बन्धूकप्रसवारुणाम्बरधराम्' इति लघुस्तवे । तथा 'बन्धकबन्धूभवदेतदस्या मुखेन्दुनानेन सहोज्जिहानाम्' इति नैषधेऽपि । तद्वत्तान्येव वा दन्तवसनमधरो यस्याः । पुनः किंभता । सिता उज्ज्वला कान्तिर्यस्य तादृक् वकं मुखं यस्याः । पक्षे सितकान्तिश्चन्द्र एव वदनं यस्याः । पुनः किंभूता। काशः ईषीकाः कासाः प्रसिद्धास्तद्वत्ते एव स्मितमीपद्धसितं यस्याः । पुनः किंभूता । कुमुदिन्यः कैरविण्यस्तथा ताभिश्च सुरमिः सुगन्धिः । पुनः किंभूता । मराला राजहंसास्तद्वत्तेषां च लीलया मन्थरतया गतिर्गमनं यस्यां वा । वर्षासु हंसा मानससरसि यान्ति । 'प्रोषितकलहंसवयसि' इति चम्पूकथायां मेघवर्णने । प्रोषिता मानसं प्रति प्रस्थापिताः कलहंसा एव वयांसि पक्षिणो येनेति तहिपनके । तथा 'शरदि पुनरत्रायान्ति' इति कविसमयः ॥
माणिक्यभूषणगणैर्न तदा कदाचि- त्खेदोदयाद्वपुरभूष्यत चन्द्रमुख्या। क्रीडागतामंरकरावचिताम्बुजातां
जानेऽनुयातुमनसा सरितं सुराणाम् ॥ १८ ॥ तदा गर्भसमये चन्द्रमुख्या नाथीदेव्या विधुवदनया कदाचिदपि माणिक्यानां मणीनामुपलक्षणात्स्वर्णरजतादीनां भूषणानामाभरणानां गणैः समूहैः वपुः स्वशरीरं नाभूष्यत न भूषितं नालंकृतवती(?) । अल्पशब्दस्त्वभावस्यैव वाची। नालंचक्रे । कस्मात् । खेदोदयात् गर्भधारणनिर्वेदाविर्भावात् । तत्राहमेवं जाने उत्प्रेक्ष्यते वा । क्रीडाथै जलावगाहलीलाकृते आगतानाममराणामर्थाद्देवीसखानां देवानां करैर्हस्तैरवचितानि स्वप्रियाहारावतंसादिक्रियाकृते चुण्टितानि-। गृहीतानीत्यर्थः । अम्बुजानि कमलानि यस्यां तादृशीं . सुराणां सरितं देवनदी स्वर्गङ्गामनुयातुं स्वेनानुकतुकामयेव । अत्र जाने इवार्थे ।
रेजे. स्तनाननविनीलिममञ्जुलेन ___ यस्याः समुज्ज्वलपयोधरयामलेन । केलीकृते मरकिताङ्कितसानुनेव
रौप्येण शैलयुगलेन मनोभवस्य ॥ १९ ॥ यस्या गर्भवत्याः समुज्ज्वलेन गर्भानुभावात्पाण्डुरीभूतेन पयोधरयामलेन स्तनद्वन्द्वन रेजे । तथा-'ऐरावतमस्तकपिण्डपाण्डुरमुच्चच्चुकश्यामलिनालंकृतम् आपूर्वमाणमन्तःक्षीरेण क्षणमखिद्यत पयोधरद्वन्द्वमुद्वहन्ती' इति चम्पूकथायाम् । किंभूतेन । स्तनाननयोश्चूचुकयोविनीलिम्न प्रकृष्टश्यामत्वेन मझुलेन मनोज्ञेन । इवोत्प्रेक्ष्यते । मनोमवस्य कामस्य केलीकृते क्रीडाथै रौप्येण रजतसंवन्धिना शैलयुगेन गिरियुग्मेनेव । किंभूतेन । मरकतैरश्मगर्भिनीलमणिभिरङ्कितं कलितम् । रचितमित्यर्थः । सानु शिखरं यत्र ॥