________________
९४
काव्यमाला।
किंभूतश्चन्द्रः । छायामन्तःश्यामतां धरतीति । पुनः किंभूतः । शरदा घनात्ययेन अ. पास्तो निराकृतः पयोदानां मेघानाम् । 'प्रावृषेण्यो घनो जलदायी न शारदः' । यत उक्तम्-'अन्ये ते [खलु नीरदा] जलधरास्तृष्णां विनिम्नन्ति ये भ्रातश्चातक किं वृथात्र रटितैः खिन्नोऽसि विश्राम्यताम् । मेघः शारद एष काशधवलः पानीयरिक्तोदरो गर्जत्येव हि केवलं भृशमपां नो बिन्दुमुद्यच्छति ॥ इति वष्पीहाष्टके । अतः पयोदनाम सार्थकम् । रोधो रुन्धनं यस्याः ॥
लीलाचलद्दलगणा विगलन्मरन्द
लुभ्यन्निलीनमधुपा सितपद्मपतिः । प्रस्पन्दमाननयनेन सविभ्रमभू
भाजा यदीयवदनेन विडम्ब्यते.स्म ॥ १६ ॥ यदीयवदनेन गर्भसमयत्वात् पाण्डिममण्डितेन नाथीमुखेन सितंपद्मपतिः कुमुदमण्डली। 'श्वेते तु तत्र कुमुदम्' इति हैम्याम् । विडम्ब्यते स्म अनुक्रियते स्म । 'पुण्डरीकातपत्रस्तं विकसत्कासचामरः । ऋतुर्विडम्बयामास न पुनः प्राप तच्छियम् ॥' इति रघौ । शरदृतुस्तं रघु राजानं विडम्बयामास । अत्र चामरादिभिरनुचकार, परं तलक्ष्मी न प्रापेति तद्वृत्तिः । किंभूतेन वदनेन । प्रस्पन्दमाने स्वभावचपले नयने लोचने यस्मिन् । 'प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम्' इति रघौ । पुनः किंभूतेन मुखेन । सह विभ्रमेण विलासेन वर्तते तादृशी भ्रुवं नयनोरोमपद्धति भजतीति । किंभता सितपद्मपतिः । लीलया नातिशयेन मन्दमरुत्प्रेरणया चलतां लोलीभवतां दलानां प. त्राणां गणो यत्र । पुनः किंभूता । विगलन्तो निष्पतन्तो ये मरन्दा मधूनि तदर्थ लुभ्यन्तो लोलुपीभवन्तोऽतं एव निलीनाः कोशान्तानेश्चलीभय स्थिता मधुपा भ्रमरा यस्याम् । तादृशी कुमुदावली सगर्भत्वेन पाण्डुरमुखस्योपमानमिदम् । स्वभावमुखस्यान्योऽर्थः । निःसरन्मधुकृते लुब्धीभवतां निलीनानां च भृङ्गाणामासितमवस्थितं यत्र तादृक् पद्मपतिः हसिता ॥
नीलारविन्दनयना कलमावदाता
बन्धूकदन्तवसना सितकान्तिवना । कासस्मिता कुमुदिनी सुरभिमराल
लीलागतिः सरसि वाजनि सा तदानीम् ॥ १७ ॥ सा नाथी तदानीं तस्मिन् गर्भाधानसमये शरदिव घनात्ययसमय इव अजनि संजाता। किंभूता नाथी देवी शरच । नीलारविन्दे इन्दीवरे । 'नीले तु स्यादिन्दीवरम्' इति है. म्याम् । उत्पले तद्वत्ते एव वा नयने यस्याः । पुनः किंभूता । कलमा कलमनामशालयः तद्वत्तैश्चावदाता गौरकान्तिः। पुनः किंभता । बन्धकानि बन्धुजीवकतरुकुसुमानि म