________________
३ सर्गः) . हीरसौभाग्यम् ।
स्मेरद्दलैरुपचिता नवशारदीन
_ नालीकिनीवदतिवाहितवारिवाहा ॥ १३ ॥ __ अथ दोहदपूर्णीभवनानन्तरम् । एणचक्षुर्मगनेत्रा नाथी अवयवेष्वङ्गेषु मेदस्वितां पुष्टि वहन्ती विभ्रती सती वभौ राजते स्म । किं कृत्वा । दोइदेभ्यो गानुभावोत्पन्नविविधाभिलाषेभ्यो भवामुत्पनामातै पीडां चिन्तां वा निस्तीर्य निरस्य । किंवत् । नवशारदीननाली किनीवत् । यथा नवा नूतना शारदीना शरत्कालसंबन्धिनी नालीकिनी कमलिनी स्मेरद्भिविकसद्भिः । 'स्मेरदम्भोरुहाराम' इति पाण्डवचरित्रे । दलैः पत्रैरुपचिता पुष्टा कृता । पुनः किंभता । अतिवाहितो वारिवाहो मेघसमयो यया । 'वर्षासु कमलानि शीर्यन्ते विद्राणपङ्कजसरसि' इति चम्पूकथायाम्। 'त्रिदिवसमुद्भवन्ति प्रोन्मीलत्सु नीलनी. रजेघु शरच्छीकटाक्षेष्विव' इत्यपि चम्पूकथायाम् ।
शुद्धां क्रियां विदधतामधिभूर्यदेष
भावीरितः किमिति भागवतैः प्रतापैः ।। · आनन्दपूर्वविमलव्रतिवासवस्तां
प्राग्जन्मनः समय एव समुद्दधार ॥ १५ ॥ आनन्द इति शब्दः पूर्व यस्य तादृशो विमलः एतावता आनन्दविमलनामा वतिनां साधूनां मध्ये वासवः शक्रः सुरीन्दः जन्मनः प्राक्समये एवार्थात् श्रीहीरविजयसूरिजन्मकालात्प्राक् पूर्वकमेव निर्दोषां निरवद्यां क्रियामनुष्ठानमुद्दधार समुद्धरति स्म । एतावता हीरकुमारे गर्भेऽवतीर्णमात्र एवानन्दविमलसूरिः क्रियोद्धारं कृतवानित्यर्थः । किमुत्प्रेक्ष्यते। भागवतैर्भविष्यत्सरिसंबन्धिभिः प्रतापैः प्रभावैर्माहात्म्यैः । स प्रतापः प्रभाववत्' इति है. भ्याम् । इति हेतोः ईरितः प्रेरितः किम् । यत्कारणात् एष हीरविजयसरिः शुद्धां निर्मला क्रियामनुष्ठानं विदधतां साधूनामधिभूरधिपतिर्भावी स्वामी भविष्यति । प्रागित्यव्ययम् ॥ .
कालांगुरुद्रवकरम्बितगन्धधूली
पत्रावलीकलितपाण्डरगण्डभाजा । छायाधरः शरदपास्तपयोदरोधो
. ऽवश्याय दीधितिरहस्यत तन्मुखेन ॥ १५ ॥ तन्मुखेन नाथीवदनेन अवश्यायदोधितिहिमयुतिः । 'अवश्यायस्तु तुहिनं प्रालेय मि. हिका हिमम्' इति हैम्याम् । अहस्यत इसितः । तिरस्कृत इत्यर्थः । किंमतेन तन्मुखेःन । कालागुरुद्रवेण काकतुण्डस्य पयसा पड्केन वा करम्बिताया व्याप्ताया गन्धधूल्याकस्तुर्याः पत्रावलीभिः कलितो संयुतौ । तथा-गर्भानुभावात्पाण्डुरौ विशदौ मण्डौ कपोली भजतीति भाक् तेन भाजा उल्लसद्बहलमृगमदजललिखितविचित्रपत्रमङ्गमव्यविपुलकपोलमण्डलेन मुखेन । 'शशाङ्कमन्तःस्फुरत्कलङ्कमुपहसन्ती' इति चम्पूकथायाम् ।