Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
८२
षड्दर्शन समुश्शय, भाग - २, परिशिष्ट -३ अवचूर्णि - वैशेषिकमत
वस्तुतत्त्वं पदार्थरूपम्, अनन्ताः त्रिकालविषय-त्वादपरमितयो[ता ये] धर्मा सहभाविनः क्रमभाविनश्च पर्याया आत्मा स्वरूपं यस्य अनन्तधर्मकत्वं साध्यो धर्मः, सत्त्वान्यथानुपपत्तेरिति साधनम्, हेतो [रन्त]
प्त्यैव साध्यसिद्धत्वाद् दृष्टान्तादिभिः किं प्रयोजनम् ? य[त]दनन्तधर्मात्मकं न भवति तत्सदपि न स्यात् यथा आकाशपुष्पम् । आत्मादीनां साकारानाकारोपयोगकर्तृत्वभोक्तृत्वादयो जगत्प्रसिद्धा धर्माः ।।५।। ___ अक्षगोचरातीतितः [तः] परोक्षः तदभावोऽपरोक्षः तया साक्षात्कारितया अर्थस्य वस्तुनो ग्राहकम् ईदृगेव ज्ञानं प्रत्यक्षम्, अन्यथोक्तप्रत्यक्षनिषेधः । इतर [८] साक्षात्कारितया स्वसंवेदनबहिःपर्यालोचनया परोक्षम् ।।५६।।
येन कारणेन यत् उत्पादव्ययध्रौव्यात्मकं तत् सत् सत्त्वरूपमुच्यते तेन कारणेन अनन्तधर्मकं वस्तु प्रमाणगोचरः । सर्ववस्तुषु उत्पत्तिविपत्तिसत्तासद्भावात् उत्पत्त्यादित्रययुक्तस्यैवानन्तधर्मता तेनैव पुनरनन्तधर्मात्मकत्वमुक्तं न पौनरुक्त्यम् ।।५७।।
जिनदर्शनस्य संक्षेपः प्रोक्तः विस्तरस्य अगाधत्वेन वक्तुमगोचरत्वात् अ ना यानि दूनिघो निर्दू] षणाः [णः] सर्वज्ञमूलत्वात् [तु पुनः] समुञ्चये, आदौ प्रांच ते [प्रान्ते] च परस्परविरुद्धषेत [र्थता] यत्र न; आस्तां केवलिप्रणीते छद्मस्थप्रणीतेऽप्यङ्गा-दिके न दोषलवः परेषां [परस्परं] शास्त्राणि परस्परविरोधाघ्रात[तत्वे]न व्याघ्रा[घ्र] इव दुःशक्या कर्म धर्तुम् ।।५८।।
वैशेषिकाणां काणादानां नैयायिकैः समं शिवदेवविषयो भेदो नास्ति तत्त्वेषु शासनरहस्येषु तु भेदो निर्दिश्यते ।।५९।।
[वैशेषिकमत तन्मते वैशेषिकमते तु निश्चितं च तत्त्वषट्कम्, नामानि सुगमार्थानि ।।६०।।
नवविधं द्रव्यं पञ्चविंशतिगुणाश्चेति [श्च नि] गदसिद्धा-न्येव संस्कारस्य वेगभावनास्थित ति]स्थापकभेदात् त्रिविधोऽपि[त्रैविध्येऽपि] संस्कारत्वजात्यपेक्षया एकत्वम् । शौर्यांदार्या-दीनां गुणानामेष्वेवान्तर्भावात् नाधिक्यम् ।।६१-६३।। पञ्चापि कर्मभेदाः स्पष्टा एव । गमनग्रहणाद् भ्रमणरेचनस्यन्दनाद्य-विरोधः । तु पुनः सामान्ये द्वे परसामान्यमपरसामान्यं चेत्यर्थः ।।६४।।
एतद्व्यक्तिंक्तिं]विशेषव्यक्तिं चाह - तत्र परं सत्ता भावो महासामान्यम्, [अपरसामान्यं] च द्रव्यत्वादि, एतञ्च सामान्यविशेष इत्यपि व्यपदिश्यते । तथाहि द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्य गुणकर्मव्यावृत्तत्वाद् विशेषः । एवं द्रव्यत्वापेक्षया पृथिवीत्वादिकमपरं तदपेक्षया घटत्वादिकम् । चतुर्विंशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यं द्रव्यकर्मभ्यो निवृत्तेश्च विशेषः । गुणत्वापेक्षया नील[रूप]त्वादिकम् । एवं कर्मादीन्यपि । नित्यद्रव्यवृत्तयोऽन्त्या विशेषा अत्यन्तव्यावृत्तिहेतवः । ते द्रव्यादिवैलक्षण्यात् पदार्थान्तराः[रम्] अन्त्ये-न्ते]षु भवा अन्त्याः, स्वाश्रयविशेषकत्वाद् विशेषाः । गवादिषु अश्वादिभ्यः तुल्याकृतिक्रियावयवोपचयसंयोगविलक्षणो-ऽयं प्रत्ययव्यावृत्ते[ति]विशेषः ।।६५।। इह[इतर] प्रस्तुतमते अयुतसिद्धानां परस्परपरिहारेण पृथगाश्रया[ना]श्रितानाम् आधार्याधारभूतानामिह

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544