Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
10
15
श्रीभानुचन्द्रगणिचरित क्रमाच्च प्राविशन्नुञ्च नाश्चर्यावहैर्महैः । उग्रसेनपुरं तेषां कीर्तयश्च दिगन्तरम् ॥ ३४६ ॥ अथो ते मेदिनीमन्तं मिलन्ति स्म शुभेऽहनि । सोऽपि संवीक्ष्य तानेवं प्रशशंस मुहुर्मुहुः ॥ ३४७॥ 'धन्यानामपि धन्यस्त्वं श्लाघ्यः श्लाघायुजामपि । विश्वेऽपि त्वत्समः कोऽस्तु सात्त्विकैकशिरोमणिः ॥ ३४८॥ मान्यानामपि मान्यश्च नान्यस्त्वत्तो जगत्यपि । धर्मे विपरिणामस्ते यतो नैतावताऽप्यभूत् ॥ ३४९ ॥ दुश्चेष्टितं तदेतन् मे मर्षयामर्षवर्जित !। सन्त एव यतः सर्वेसहायां तद्गुणस्पृशः' ॥ ३५०॥ लब्धवर्णास्ततस्तेऽपि तं निर्वेदपरं नृपम् । आचक्षिरे विचाराब्धिचश्चञ्चन्द्रिकया गिरा ॥ ३५१ ॥ 'नापराद्धं त्वया किन्तु कृतिन् ! उपकृतिः कृता। तव साहाय्यमाहात्म्याद यद दुष्कर्म क्षितं मया ॥ ३५२॥ अपराधस्त्वया हन्त ! क्षन्तव्यः किन्तु मामकः । यत्तवैवं बभूवाहं दुष्कर्मार्जनकारणम् ॥ ३५३ ॥ भूयोभूयस्ततस्तेषां जगाद जगतीपतिः। रोमहर्षाङ्कराकीर्णो हर्षाश्रुकणमिश्रहक् ॥ ३५४ ॥ 'किश्चिच्चाख्याहि कृत्यं मे सद्या संपादये यथा'। इत्युक्ते क्षितिपेनोचैस्तेऽपि तूर्ण तमभ्यधुः॥ ३५५ ॥ 'पूर्व ये मुनयः वाम्यादेशान्निर्विषयीकृताः। पुनरायान्तु ते सर्वे प्रसयैतत् प्रदीयताम् ॥ ३५६ ॥ पूर्ववद् विषयेऽस्माकं तन्निशम्यावदन् नृपः। 'यथेष्टमेते तिष्ठन्तु' पत्रं कृत्वाऽथ दत्तवान् ॥ ३५७ ॥ प्रतिग्राम प्रतिद्रङ्ग ततःप्रभृति पूर्ववत् ।
समीयुः साधवः श्राद्धकृतैश्चित्रावहैर्महैः ॥ ३५८ ॥ ॥ इत्युपाध्यायश्रीसिद्धिचन्द्रगणिविरचिते महोपाध्यायश्रीभानुचन्द्रगणिप्रभावकपुरुषचरिते महाकाव्ये पातिशाहश्रीजिहांगीरप्रसन्नप्रदत्तकमनीयकामिनीसमन्वितपञ्चसहस्रतुरगाधिपत्यानङ्गीकारकरणवनगमन-पुनरपि श्रीशाहिप्रदत्तबहुमानस्फुरन्मानमेवडाप्रेषणपूर्वकव्यावृत्त्यागमन-महोपाध्यायश्रीमानुचन्द्रगणिद्वारा श्रीशाहिमिलन सर्वत्र श्रीशाहिनिर्विषयीकृतसमस्तसाधुजन पुनरपि सर्वत्र सुखावस्थानविहारकरणस्फुरन्मानविधापनादिवर्णनो नाम तृतीयः (चतुर्थः) प्रकाशः ॥ छ ।
00
26
80
॥ महोपाध्याय श्री १९ श्रीभानुचन्द्रगणिशिष्यसकलपण्डितशिरोमणिपण्डितश्रीदेवचन्द्रगणिपण्डित
श्रीविवेकचन्द्रगणिशिष्यमुनिगुणचन्द्रेण लिखितः ॥

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180