Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 762
________________ [७२६] योगइत्येवं भिन्नभाषायां, विज्ञैश्च भक्तिभावतः। जीवनं लिखितं ज्ञेयं दृश्यतां सर्वसज्जनः ॥६०३॥ शिष्याश्च प्रौढविद्वांसः, सर्वदेशविहारिणः। सर्वदेशीयभाषायां, विज्ञाश्च परिकीर्तिताः ॥६०४॥ शासनरागरक्ताश्च, शुद्धचारित्रपालकाः। वादिशिरोमणीभूताः, वीरशासनपोषकाः ॥६०५॥ विजयेन्द्राऽऽख्यसरिश्च, मुख्यशिष्यश्च सम्मतः। इतिहासादिशास्त्रेषु, पाण्डित्यं परिवर्तते ॥३०६॥ अनेक ग्रन्थकर्तृत्वं, भिन्न भाषासु ज्ञायताम् । पश्चशिष्यस्य सम्पत्तिः, सूरीणां परिजायते ॥६०७॥ मङ्गलविजयश्चैव, द्वितीयः परिकीर्तितः। पाठकपदसंयुक्तः, न्यायतीर्थविशारदः ॥६०८॥ अनेकग्रन्थकर्ता च, भाषायां संस्कृते तथा । प्रभाकरेण संयुक्तः, नैकदेशेविहारवान् ॥६०६॥ सम्मेतशिखरादीनां, तीर्थानां समुद्धारकः । बङ्गे सराकजातोनामुद्धारे च समुद्यतः ॥६१०॥ शिष्योऽपि तादृशस्तस्य, सर्वकार्यसहायकः। गुरुषु भक्तिरागश्च, सर्वदा परिदर्शकः ॥६११॥

Loading...

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784