Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 598
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३३२ (B) चेइय सावग पव्वइउकाम अतरंत-बालवुड्डा य । चत्ता अजंगमा वि य, अभत्ति तित्थस्स परिहाणी ॥ ३३४८॥ अन्यच्च चैत्यानि तेन परित्यक्तानि, श्रावका ये च प्रव्रजितुकामाः,तथा अतरन्तो ग्लाना बाला वृद्धा अजङ्गमाश्च ते सर्वेऽपि त्यक्ताः अभक्तिस्तीर्थकराणां कृता आज्ञाखण्डनात् तीर्थस्य च परिहानिरापादिता। तथाहि-ये तत्र विषये प्रव्रजितुकामास्ते न प्रव्रजिष्यन्ति, श्रावका अपि सम्यक्त्वमणुव्रतानि च गृह्णन्तो न ग्रहीष्यन्ति। ततो भवति तीर्थस्य व्यवच्छेदः ॥ ३३४८॥ यद्येवं तर्हि तत्रैव तिष्ठन्तु । तत्राप्याह गाथा अच्छंताण वि गुरुगा, अभत्तितित्थस्स हाणि जा वुत्ता । ३३४६-३३५२ नूतनराज्ञि भणमाण भणावेता, अच्छंति अणिच्छ वच्चंति ॥ ३३४९॥ अवग्रहादि याचना तत्र तिष्ठतामपि तेषां प्रायश्चित्तं चत्वारो गुरुका मासाः, देशान्तरे भव्यपौण्डरीकप्रतिबोधनलाभतो भ्रष्टत्वात्, तथा तीर्थकराणामभक्तिस्तिष्ठद्भिः कृता तदाज्ञाखण्डनात्, तीर्थस्य ||१३३२ (B) हानिरापादिता स्वयमेव तेन प्रान्तेन राज्ञोक्ता स्त्रीपुरुषा न दीक्षितव्या इति, यद्येवं तर्हि किं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606