Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 268
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका १०३ (B) प्रायश्चित्तम्। तथा चाह "गीए दप्पाऽजए दोसा," गीते-गीतार्थे दर्पण प्रवर्तमाने सति प्रतिसेवनायामिति गम्यते, कारणेऽपि प्रतिसेवनायाम् अयतमाने अगीतार्थेन तुल्या दोषाः, अगीतार्थेन तुल्यं तस्य प्रायश्चित्तमिति भावः। प्रतिसेव्यमाने तुल्ये वस्तुनि दर्पणाऽपि क्रियमाणायां प्रतिसेवनायां यतनया प्रवृत्तौ न तुल्यं प्रायश्चित्तम्। कारणे पुनर्यतनया प्रवर्त्तमानः शुद्ध एव, न प्रायश्चित्तविषयः । तत्राऽऽचार्या उपाध्यायाश्च नियमाद् गीतार्था इति गीतार्थत्वाऽपेक्षया समानाः केवलं प्रतिसेव्यमानं वस्तु प्रतीत्य भिन्नविषयाः। भिक्षवो गीतार्थाऽगीतार्थाश्च भवन्ति, प्रतिसेव्यमानमपि वस्त्वधिकृत्य भेद इति वस्तुभेदतो गीतार्थत्वाऽगीतार्थत्वतश्च पृथग विभिन्नं विभिन्नं प्रायश्चित्तं, सहाऽसहपुरुषाद्यपेक्षया तु तुल्येप्याऽऽभवति प्रायश्चित्ते पृथग् विभिन्नविभिन्नं प्रायश्चित्तदानम् ॥१७१॥ तथा चाह दोस-विहवाणुरूवो, लोए दंडो वि किमुत उत्तरिए? । तित्थुच्छेदो इहरा, निराणुकंपा न य विसोही ॥ १७२ ॥ दंडो वीति, अपिशब्दः भिन्नक्रमत्वात् लोकेपि इत्येवं द्रष्टव्यः, लोकेऽपि दण्डो दोष१. प्रवृत्तौ तत्तुल्यं-वा. मो० पु० ॥२. समाः, के. वा. मो० पु० मु० ॥३. न्त्य विषमाः वा. मो० पु० मु० ॥ ४. व्यमपि - वा. मो० पु० मु० ॥५. द्रष्टव्यम्-खं० ॥ गाथा १६९-१७२ प्रायश्चित्तदानभेदे कारणानि १०३ (B) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280