Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं उभयतरस्सा दो तुट्ठीओ उ सेवगस्सेव / सोही य कयामेत्ती वेयावच्चे निउत्तो य // 301 // एवं सेवकपुरुषदृष्टान्तप्रकारेण उभयतरस्य सेवकस्येव द्वे तुष्ट्यौ भवतस्तद्यथा-एक तावन्मे प्रायश्चित्तदानेन शोधिः कृता, द्वितीयं वैयावृत्ये नियुक्तस्य महती मे निर्जरा भविष्यति / ____ अथ प्रायश्चित्तं वहन् वैयावृत्यं च कुर्वन् यदि पुनरपि श्रोत्रादीनां पश्चानामिन्द्रियाणामन्यतमेनेन्द्रियेण / आदिशब्दात क्रोधादिभिश्च स्तोकं बहु वा प्रायश्चित्तमापद्यते, / यदि अन्यदपि प्रायश्चित्तमापद्यते तदा कथम् ? उच्यते, सो पुण जइ वहमाणो, पावज्जइ इंदिया इह पुणोवि / तं पि य से प्रारुहिज्जइ, भिन्नाइं पंचमासंतं // 302 / / स पुनरुभयतरः प्रायश्चित्तं वहन वैयावृत्यं च कुर्वन् यदि पुनरपि श्रोत्रादीनां पश्चानामिन्द्रियाणामन्यतमेनेन्द्रियेण / आदिशब्दात्क्रोधादिभिश्च स्तोकं बहु वा प्रायश्चिचमापद्यते, / तत्र स्तोकं विंशतिरात्रिंदिवादारभ्य पश्चादानुपूर्ध्या यावत् पञ्चरात्रिंदिवं बहुपाराञ्चितादारभ्य पश्चादनुपूज्यों यावत्मासिकं तदपि से तस्य आरुह्यते, भिन्नादिभिन्नमासादि / आदिशब्दात्सकलमासादिपरिग्रहः पञ्चामासान्तं पश्चमासपर्यन्तं इयमत्र भावना-स्तोकं बहुवा यथोक्तस्वरूपं यदि प्रायश्चित्तस्थानमापनस्तथापि तस्य भिन्नमासादि दीयते, / कस्मादिति चेदत आहतवलितोसो जम्हा.तेण तेण अप्पे वि दिजये बहुयं। परतर उ पुण जम्हा,दिज्जइ बहुए वितो थोवं॥३०३॥ यस्मादुभयतरकः प्रायश्चित्ततपः करणे धृतिसंहननबलिष्टस्तेन कारणेन रेफः पादपूरणे 'इजेराः' पादपूरणे इतिवचनात् / For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 276