Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 333
________________ [३१० [विवेकमञ्जरी मनुष्यायुस्त्वया बद्धं तया सत्त्वानुकम्पया । संसारश्च सुपुण्यात्मन् ! अतनुं प्रतनुः कृतः ॥३७॥ दिनद्वयेन सार्धेन दग्ध्वा वनमशेषतः । स्वयमेव तदा दावपावकः प्रशमं ययौ ॥३८॥ . ययुस्तद्भीतितो मुक्ताः शान्तैऽग्नौ श्वापदाः समे । स्थण्डिलेभ्यो विनिःसृत्य कुटुम्बेभ्यो यथा जनाः ॥३९॥ मेघ ! त्वमपि खिन्नात्मा तदानीं क्षुत्तृषातुरः । तूर्णं निर्यातुकामोऽद्रिर्वजाहत इवापतः ॥४०॥ मृतावस्थस्ततः काकोलूकजम्बुकभक्षणम् । दुःसहं सहमानोऽस्था महासत्त्व ! दिनत्रयम् ॥४१॥ पालयित्वा शतं वर्षाण्यायुर्मृत्वा ततोऽपि च । धीर ! त्वं धारिणीकुक्षौ पुत्रत्वेन समागमः ॥४२॥ गजो येनाभवस्तेन स्वप्ने सा गजमैक्षत । तृषार्तो येन चागास्त्वं तेन सा वृष्टिदोहदा ॥४३॥ तत्तिरश्चापि भवता पुरा जीवानुकम्पया। सोढं दृढतया कष्टमिदानीं तु किमुच्यते ? ॥४४॥ पदस्पर्शेन साधूनां पूज्यः पांशुकणोऽपि हि । जायते वत्स ! तेनायं विषोढुमुचितस्तव" ॥४५॥ श्रुत्वेति जातिस्मृतिमान् मेघः प्रमदबाष्पयुक् । विभुं नत्वा ददौ मिथ्यादुष्कृतं स्वविकल्पिते ॥४६॥ तपोऽऽभितप्य क्षमया प्रधानं विपद्य भेजे विजयं विमानम् । ततोऽप्येष महाविदेहजनेः शिवं यास्यति मुक्तदेहः ॥४७॥ ॥ इति श्रीमेघकुमारकथा ॥

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362