Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥ ९२३॥
| पेलुकरणादि' त्ति पेलुकरणादि पुनर्द्रव्यं, द्रव्यार्थता चात्र साध्या, किंविशिष्टमित्याह- 'दवणपरिणामं 'ति पेलुद्रव्यं तथापरिणतिकारि, अत एवाह - नैव तत्तदर्थान्वर्थशून्य करणार्थत्वात्, तथा नापि च शब्दः - शब्दमात्रमेव तद्, अपि तु द्रव्यार्थोऽपि तदिति । तदेवमस्याधस्त्याद् व्यवच्छेद उक्तः, उपरिमादभेदमुत्पश्यन् पर आह- 'जती' त्यादि । यद्येतत् पेलुकरणं 'तदर्थविहीनं' अन्वर्थशून्यं न भवति ततः किं - कस्मात् इदं द्रव्यकरणमिति प्रज्ञाप्यते १, ननु भावनिक्षेप एवास्य क्षेपो भवतु, उच्यते यतो- यस्मात्कारणात् तेन काष्ठविशेषेण द्रव्यं क्रियते प्रविततं सद् भूतं तथा वर्त्यते, ततः सञ्ज्ञाकरणं किमित्युच्यते चेदुच्यते, सञ्ज्ञाकरणमिति च तत्करणरूढेः, एतदुक्तं भवति-सञ्ज्ञा च सा करणं चेति सञ्ज्ञाकरणमिति नैव विशेषणसमासोऽङ्गीक्रियते, अपि तु सञ्ज्ञाविशिष्टं करणं सञ्ज्ञाकरणमिति ॥ द्वितीयमाह - 'नो' इत्यादि । अक्षरघटना - कस्यचित्पुनर्द्रव्यस्यापि सतः नोसंज्ञाकरणमिति व्यपदेशः पङ्कजस्याप्यपङ्कजव्यपदेशवत् । युक्तिमाह तत्क्रियाभावात् तस्य द्रव्यस्य तथाऽधिकारक्रियासद्भावात्, तच्च द्वेधा 'णोसन्नावीससपयोगे त्ति वचनात् तथा चाह भाष्यकारः - पयोगतो वीससाओ य, तत्र प्रयोगो - जीवव्यापारस्तेन निर्वृत्तं प्रायोगिक, तथा विश्रसा स्वभावोऽभिधीयते तेन निर्वृत्तं वैश्रमं, अथ विश्रसाकरणं येषां येषां यद्विधं च भवति तदाह - 'सादी' त्यादि ॥ तथा विस्रसाकरणं| स्वाभाविककरणं केषां भवतीत्याह - अजीवाथ ते द्रव्याणि चाजीवद्रव्याणि तेषामजीवद्रव्याणां मूर्त्तामूर्त्तानामिति सामर्थ्यलभ्यं, किंविशिष्टं १ - सादिकमनादिकं, वाशब्दः समुच्चयार्थः, तत्रारूप्यजीवद्रव्याणामनादि भवतीत्यत आह-धर्माधर्म नभसामनादिसङ्घातना करणं वैश्रसिकमिति, 'कृत्यलुटो बहुलमिति वचनेन करणशब्दस्यानेकार्थत्वात् । तथा च चोद्यम्- 'नणु' इत्यादि । ननु च करणमनादि चेति विरुद्धं, 'डुकृञ् करणे' इति करणस्याभूतप्रादुर्भावार्थत्वाद्, भण्यते, न दोषोऽयं, किं कारणमित्याह - 'यत्' यस्मादिह-अरूपि
सूत्रस्पर्शिकादिकरणविचारः
॥ ९२३ ॥
Loading... Page Navigation 1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496