Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 33
________________ २० श्रीवल्लभोपाध्यायविरचितं चतुर्थः सर्गः [ चतुर्थः अष्टे जगतामिष्टः पट्ट एकोनषष्टके | विजयसेन आचार्यस्तस्य शिष्यशिरोमणिः ॥ १ ॥ अस्य शृणुत वृतान्तमुत्पत्यादिसमुद्भवम् । यादृगस्ति श्रुतं तादृगू वक्तुमिच्छामि तत् किल||२|| अस्त्यस्मिन् भरतक्षेत्रे, नडुलाई पुरी वरा । ( पाठान्तरेण पुरी श्री नारदाभिवा ) तत्र कर्माभिधः श्रेष्ठी वसति व्यावहारिकः ॥ ३ ॥ तत्रान्येऽपि महीयांसो भूयांसो व्यवहारिणः । सन्ति तेष्वभवत्तस्य माहात्म्यमधिकं भुवि ॥ तत्रत्यश्च महीनाथस्तं सदाद्रियतेतराम् । वहन्ति च तदुक्ताज्ञां शिरस्युष्णीषवज्जनाः ॥५॥ दिव्या कोडिमदेव्याख्या देव्याख्याता स्तिरूपतः । तस्य पत्नी सपत्नीच लक्ष्म्या लक्ष्मीसमन्विता ॥ कला रूपं गुणाः सर्वे यौवनं बहुसम्पदः । तं सदा सुखयामासुस्तस्या लाभेन पुण्यतः ||७|| जयसिंहाह्वयः पुत्रस्तयोरासीज्जयोदयः । जयाधिकशिरोरत्नं जयसिंहपराक्रमः ||८|| सर्वदा लोकसन्तापी बुधतेजोपहारकः । अस्थैर्यभाजनं नित्यं सूर्यस्तेन कथं समः ॥९॥ सदा दोषोदयः शुकपक्षः खण्डनान्वितः । कलङ्कालंकृताङ्गय सोमस्तेन कथं समः ॥१०॥ fated बद्धम्भमयो भूवहिकृतः । हृतरत्नः समुद्रोपि कथं तेन समो भवेत् ॥११॥ परोपकारहीनश्रीरदृश्यः कठिनाकृतिः । गुणैर्मरुगिरिस्तेन सदृशो हि कथं भवेत् ||१२|| आदित्यादपि तेजस्वी यचन्द्रादपि सौम्यवान् । सागरादपि गम्भीरो मेरोरपि गुणैर्गुरुः ॥१३॥ सर्वदा पितृपादाजसेवा हेवाभवन्मनाः । सतौ बद्धकक्षो यो राजहंस इवाबभौ ॥ १४ ॥ जयसिंहकुमारवर्णनम् । अस्मिन्नवसरे तस्य वैराग्यमभवद् हृदि । वाल्येऽपि वयसि स्पष्टं कस्माच्चिदपि कारणात् ॥ आधिव्याधिजरादुःखदौर्गत्यादिककारणम् । असार एप संसारो नात्राऽतः स्थितिरद्भुता ॥ अस्मिन्ये न्यवसन्पूर्व निवसन्ति च ये पुनः । निवत्स्यन्ति च ये लोका दुःखिनो विषयैषिणः॥ दौर्गत्यादिकभाजस्ते भविष्यन्ति भवे भवे । तं त्यक्षन्ति भविष्यन्ति ते सिद्धा उत देवताः ||१८|| eat गृह्णाति चारित्रं तयैव तप उत्कटम् । लभै स्वर्गादिसौख्यानि तप्यैव जगतीतले ||१९|| ७-तं कर्माभिधम् तस्याः कोडिमदेव्याः । , ८ जये सिंहस्य पराक्रम इव पराक्रमो यस्य स तथा । ९-तेन जयसिंहाभिधेन । १९- तपस्तपः कर्मकादिति कर्तरि आत्मने पदे क्ये च आशिषि लोट उत्तमपुरुषैकवचनं प्रथमोऽयम् । तपिंच ऐश्वर्ये दिवादिरात्मनेपदी, तपं धूपसन्तापे स्वादिरित्यस्यैव ऐश्वर्येऽर्थे दिवादित्वं आत्मने पदं वा विधीयते । अन्ये तु तपिं च ऐश्वर्ये इति धात्वन्तरं दिवादिमाहुः । अन्ये तु भ्यादेरेव ऐश्वर्ये सन्तापे च आत्मने पदं वेच्छन्ति । लोट उत्तमपुरुषवचनं द्वितीयोऽयम् । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120