Book Title: Vedankush Author(s): Hemchandracharya, Veerchand Prabhudas Pandit Publisher: Hemchandracharya Sabha View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir EMICRORECORE पूजयेदुपदेष्टारं वस्त्रवित्तविभूषणः । ग्रन्थस्योद्यापने देया गौरुपस्करसंयुता ॥ २३ ॥ श्लोकार्द्र श्लोकपादं वा नित्यं भागवतोद्भवम् । पठेत् शृणोति यो भक्त्या गोसहस्रफलं लभेत् ॥२४॥ यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुने ! । अष्टादशपुराणानां फलमाप्नोति मानवः ॥ २५॥ श्लोकं भागवतं वापि श्लोकार्द्ध पादमेव वा । लिखितं तिष्ठति यस्य गृहे तस्य सदा हरिः ॥ २६॥ तत्र च- कृते प्रवर्तते धर्मश्चतुष्पात्तज्जनैधृतः । सत्यं तपो दया दानमिति पादा विभोप ! ।। २७ ॥ अहिंसा सत्यमस्तेयमकामक्रोधलोभता । भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ।। २८ ॥ विवेकविलासे-एकवर्ण यथा दुग्धं बहुवर्णासु धेनुषु । तथा धर्मस्य वैचित्र्यं तत्त्वमेकं परं पुनः ॥ २९॥ मिताक्षरायां-धर्मार्थ यतमानस्तु न चेच्छन्नातिमानवः । प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः ॥ ३० ॥ मनुस्मृतौ-अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः । एतं सामासिकं धर्म चातुर्वण्र्येऽब्रवीन्मनुः ॥ ३१॥ आदिपर्वणि-अहिंसा सत्यवचनं क्षमा वेति विनिश्चितम् । ब्राह्मणस्य परो धर्मो वेदानां धर्मणादपि ॥ ३२॥ अहिंसा परमो धर्मः सर्वप्राणभृतां वरः । तस्मात् प्राणभृतः सर्वान्न हिंस्यात् ब्राह्मणः क्वचित् ॥ ३३ ॥ मिताक्षरायाम-अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ ३४॥ ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् । सेवेत यो हि निष्कामो योग्यतां स्वं मनो नयन् ॥ ३५ ॥ विष्णुपुराणे-अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् । पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् ॥ ३६॥ इतिहासे- अहिंसकाः क्षान्तिपरायणास्तथा मुखेषु दुःखेषु समानबुद्धयः । ऋजुस्वभावा विषयेषु निःस्पृहाः तरन्ति संसारसमुद्रमश्रमम् ॥ ३७ ॥ AMERCESSORRECRUICK H RECRUCROC For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76