Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 346
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शा.रा.भू. भूमिम् ||३८||३९|| अस्मिन्सर्गे चत्वारिंशच्छ्लोकाः ॥४०॥ इति श्री गोविन्द० श्रीरामायण० शृङ्गार० सुन्दरकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२ ॥ (३१६९ ॥ तत इत्यादि । उद्विग्नहृदयः भीतहृदयः । मातुलस्यापि पादपतनं स्वामित्वानुसारेण ॥ १ ॥ २ ॥ ३ ॥ नैवेति । न निसृष्टपूर्व यथेच्छभोगाय न सन्निपत्य महावीर्यः सर्वैस्तैः परिवारितः । हरिर्दधिमुखः पालैः पालानां परमेश्वरः ॥ ३९ ॥ स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् । सुग्रीवस्य शुभौ मूर्धा चरणौ प्रत्यपीडयत् ॥ ४० ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ ततो मूर्ध्ना निपतितं वानरं वानरर्षभः । दृष्ट्वैवोद्विग्रहृदयो वाक्यमेतदुवाच ह ॥ १ ॥ उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम । अभयं ते भवेद्वीर सर्वमेवाभिधीयताम् ॥ २ ॥ किं सम्भ्रमाद्धितं कृत्स्नं ब्रूहि यद्वक्तुमर्हसि । कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानर ॥ ] स तु विश्वासितस्तेन सुग्रीवेण महात्मना । उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ॥ ३ ॥ नैवर्क्षरजसा राजन्न त्वया नापि वालिना । वनं निसृष्टपूर्व हि भक्षितं तच्च वानरैः ॥ ४ ॥ एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः । मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च ॥ ५ ॥ शिष्टमत्रा पविध्यन्ति भक्षयन्ति तथाऽपरे । निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयन्ति हि ॥ ६ ॥ दत्तपूर्वम् । वानरैः अङ्गदप्रमुखैः । अन्यथा सुग्रीववाक्ये अङ्गदानुवादविरोधात् । भक्षितमिति वनैकदेशमधुपटलविषयम् ॥ ४ ॥ एभिरिति । अचिन्त यित्वा अगणयित्वा । मधूनीति फलानामुपलक्षणम् । भक्षयन्ति पिबन्ति चेत्युक्तेः । यद्वा मधून्येव भक्षयन्ति भक्षवत्कुर्वन्तीत्यर्थः ॥ ५ ॥ शिष्टम् भुवम् ॥ ३८-४० ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥ ६२ ॥ १-३ ॥ नैवेति । निस्सृष्टपूर्व सर्वेषां यथेच्छ भोगाय पूर्व त्यक्तं न भवति ॥ ४ ॥ अचिन्तयित्वा इमानविगणय्य भक्षयन्ति पिबन्ति फलानि भक्षयन्ति मधु पिवन्तीत्यर्थः ॥ ५ ॥ ६ ॥ स०-सम्प्रमात्किम् किं प्रयोजनम् । यद्वक्तुमर्हसि तद्ब्रूहि । कस्मात्सम्भ्रमः किं सम्भ्रमः तस्मात् । इदं पादयोः पतनम्। यतस्त्वमर्हसि योग्यसि । अर्द्धतइत्यः स वाचरतीति व्युत्पच्या पूज्योसीत्यर्थ इति वा || For Private And Personal टी. सुं.की. स० ६३ ॥१६९॥

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365