Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 661
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुत्तरत्र " एतावदुक्त्वा वचनं गन्धर्वाः सहमर्षयः । राजर्षयश्चैव " इत्यत्र व्यक्तीभविष्यति ॥ २ ॥ स धन्य इति । धर्मविक्रमौ धर्मशूरौ । वयमुभयोः सम्भाषां श्रुत्वा स्पृहयामदे पुनःपुनः श्रोतुं वाञ्छाम इत्यर्थः । वयं ययोरुभयोः सम्भाषां श्रुत्वा स्पृहयामदे तादृशौ धर्मज्ञो घर्मविकमौ द्वौ पुत्रौ यस्म सधन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ । श्रुत्वा वयं हि सम्भाषामुभयोः स्ष्टहयामहे ॥ ३ ॥ ततस्त्वृषिगणाः क्षिप्रं दशग्रीववषिणः । भरतं राजशार्दूलमित्यूचुः सङ्गता वचः ॥ ४ ॥ कुले जात महाप्राज्ञ महावृत्त महायशः । ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ ५ ॥ सृदानृणमिमं रामं वयमिच्छामहे पितुः । अनृणत्वाच्च कैकेय्याः स्वर्ग दशरथो गतः ॥ ६ ॥ एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः । राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गताः ॥७॥ बादितस्तेन वाक्येन शुभेन शुभदर्शनः । रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥८॥ स्रुस्तगात्रस्तु भरतः स वाचा सज्जमानया । कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ ९ ॥ राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् । कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ १०॥ रक्षितुं सुमहद्राज्य महमेकस्तु नोत्सहे। पौरजानपदांश्चापि रक्तान रञ्जयितुं तथा ॥ ११ ॥ ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः । त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षकाः ॥ १२ ॥ स धन्य इत्यन्वयः ॥ ३ ॥ तत इति । सङ्गताः ऐककण्ठ्यं प्राप्ताः ॥ ४ ॥ कुल इति । पितरं यद्यवेक्षसे पितरं सुखास्थितं यदि मन्यस इत्यर्थः ॥ ५-८॥ | स्रस्तगात्र इति । सज्जमानया स्खलन्त्या स्वमनोरथस्य सर्वथा असिद्धत्वात् शिथिलगात्रत्वं सज्जमानवात्तत्वं च ॥ ९ ॥ राजधर्ममिति । राजधर्मे राज्यपरि पालनधर्मम् । कुलधर्मानुसन्ततिं ज्येष्ठाभिषेकरूपकुलधर्मस्यानुस्यूतिम् ॥ १० ॥ ११ ॥ ज्ञातय इति । सुहृदः शोभनहृदयाः । पर्जन्यं रसदन्दम् इन्द्रं वा प्राप्ताः । ऋषिगणाः राजर्षिगणाः, सिद्धा देवजातिविशेषाः । परमर्षयः देवर्षयः ॥ २ ॥ स धन्य इति । धर्मविक्रमों धर्ममार्गवर्तिनावित्यर्यः । वयमुभयोः सम्भाषां श्रुत्वा स्पृहयामहे पुनःपुनः श्रोतुं वाञ्छाम इत्यर्थः ॥ ३ ॥ तत इति । सङ्गताः ऐक्यं प्राप्ताः ॥ ४ ॥ पितरं यद्यवेक्षसे पितरं सुखावस्थितं मन्यस |इत्यर्थः ॥ ५८ ॥ स्रस्तगात्र इति । सज्जमानया स्खलन्त्या ॥९ राजधर्म प्रजापालनरूपम् । कुलधर्मानुसन्ततिं ज्येष्ठाभिषेकरूपकुलधर्मस्यानुक्रमणम् ॥ १० ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691