Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 10
________________ श्री परिशिष्ट पर्व द्वादशः सर्गः सुहस्तिनोऽन्वयें वज्रस्वार्मी चॅ क्रमयोगतः । अर्भूत्प्रवचनाधारस्तत्कर्थाऽर्थं प्रपञ्च ॥ १ ॥ - अन्वय :- अथ सुहस्तिनः अन्वये क्रमयोगतः प्रवचनाधारः वज्रस्वामी च अभूत् तत्कथा प्रपञ्च्यते । अन्वये - वंशे, 'अन्वयो जननं वंश:' इत्यभिधाने (५०३) । (१) वज्रस्वामी - वज्रश्चासौ स्वामी च इति वज्रस्वामी । (वि.उ.क.) (२) क्रमयोगतः समास : - क्रमस्य योगः इति क्रमयोगः, तस्मात् क्रमयोगत: । (ष. त. पु.) (३) प्रवचनाधारः - प्रवचनस्य आधार : इति प्रवचनाधारः । (ष. त. पु.) (४) तत्कथा तस्य कथा इति तत्कथा । (ष.त.पु.) इहैं जम्बूद्वीपें, प्राग्भरतार्धविभूषणम् । अवन्तिरिति देशोऽस्तिं, स्वर्गदेशीय ऋद्धिभिः ॥ २ ॥ अन्वय :- इह जम्बूद्वीपे एव प्राग्भरतार्धविभूषणम् ऋद्धिभिः स्वर्गदेशीयः अवन्तिः इति देश: अस्ति । समास :- (१) जम्बूद्वीपे - (A) जम्ब्वा (वृक्षेण) उपलक्षितः इति जम्बूपलक्षितः । (तृ.त.पु.) (B) जम्बूपलक्षितः द्वीप : इति जम्बूद्वीप:, तस्मिन् जम्बूद्वीपे । (मं.प.लो.क.)

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 204