Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 140
________________ जं खलु पञ्चक्खायं तभंगो गरहणिजओ होइ । सो णत्थि तस्स अण्णं वज्झा पुण किं ण गरहंति ॥१२१॥ यत् खलु निश्चये प्रत्याख्यातं, तभंगो गर्हणीयको भवति शिष्टानां, स प्रत्याख्यातभंगः, तस्य क्षीणमोहस्य, नास्ति भावामंगेन द्रव्यादिभंगेऽरक्तद्विष्टस्य प्रत्याख्यानभंगेऽभ्युपगम्यमाने धर्मोपकरणधारिणश्चारित्रिणो द्रव्यादिचतुष्टयशुद्धपरिग्रहप्रत्याख्यानानुपपत्तिरिति वदतो दिगम्बरस्य निराकरणानुपपत्तेः, निराकतश्चायं द्रव्यादिप्रकारात्यागेन प्रत्याख्यानशुद्धिसमर्थनाद्विशेषावश्यकादौ, एवमिहापि द्रव्यादिप्रकारैः प्रमादयोगत्यागात्र प्रत्याख्यानभंगलेशोऽपीति किं न विचारयन्ति सुहृदः । अन्त्यविकल्पे प्राह-बायाः पुनरशिष्टाः पुनः, तस्य क्षीणमोहस्य, अन्यत् कि न गर्हन्ति, अप्रयोजकं तद्हणमिति भावः ॥१२१॥ वाद्याः किमन्यद्ईन्तीत्याहण सयंभू स मणूसो इय अवमण्णंति माहणा देवं। इहि पिण कयकिच्चो दिअंबरा कवलभोइत्ति ॥१२२॥ स भवदभिमतो वीतरागः, न स्वयंभूर्नानादिसिद्धसर्वज्ञः, किन्तु मनुष्यः, तथा चास्मदादीमातिशेत इति भावः, इत्येवं प्रकारेण , ब्राह्मणा नैयायिकादयः, देवं भगवन्तं, अवमन्यन्तेऽवजानते । तथा कवलभोजी कवलाहारी भवदभिप्रेतः सर्वज्ञः, इदानीमपि अभिमन्यमानसर्वज्ञताकालेऽपि, न कृतकृत्यो न परिनिष्ठितार्थः, स्वकीयस्यैव क्षुदादिदुःखस्यानाशात् परकीयतमाशने सामर्थ्याभावादिति दिगम्बरा देवमवमन्यन्ते । एवमन्येऽप्यन्यथावादिनः स्वस्वाभिप्रेतार्थानुपदेशिनं तमवमन्यन्त इति ॥१२२॥

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194