Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
दीप्तौ, भानु:- सूर्यः, रश्मिश्च । चित्रभानुः - अग्निः स्वर्भानुः- राहुः । विश्वभानुः - आदित्यः ।। ७८६ ।।
धेः शित् ॥७८७॥
दधें पाने, इत्यस्माद् नुः प्रत्ययो भवति । स च शिद् 5 भवति, शित्त्वादाद् ' आत्संध्यक्षरस्य ' इति आकारो न भवति । धेनुः - अभिनवप्रसवा गवादिः ।।७८७ || सूवः कित् ।।७८८ ॥
10
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
षूङक् प्राणिगर्भविमोचने इत्यस्मात् किद् नुः प्रत्ययो भवति । सूनुः - पुत्रः ॥ ७८८ ।।
हो ज च ॥७८॥
ओहां त्यागे, इत्यस्मात् किद् नुः प्रत्ययो भवत्यस्य चजह इत्यादेशो भवति । जहूनुः - गङ्गापिता ॥७६८६६ ॥
वचेः कगौ च ॥७६०॥
वचं भाषणे, इत्यस्माद् नुः प्रत्ययो भवति, ककार15 गकारी चान्तादेशौ भवतः । वक्तुः, वग्नुश्च - वाग्मी
1198011
कृ-हस्तक नुकौ ॥७६१ ॥
आभ्यां कितौ तु नु इति प्रत्ययौ भवतः । डुकृंग् करणे, कृतुः– कर्मकरः । कृणुः - कोशकार:, कारुव । हक् 20 हिंसागत्योः हतुः - हिम:, हनुः- वक्त्रैकदेशः । वाहुलकान्नलोपः ॥ ७६१||
गमेः सन्वच्च ॥७६२||
गम्लूं गतौ इत्यस्मात् तुक् - नुकौ सन्वद् भवतः । जिगन्तुःब्राह्मण:, दिवस, मार्गः प्राणः, अग्निश्च । जिगन्नु:25 प्राणः, बाणः, मनः, मीनः वायुच ॥७६२ ।।
35
दा-भू-क्षण्युन्दि- वदिपत्यादेरनुड् ॥७६३॥
एभ्यो डिद् अनुः प्रत्ययो भवति । डुदांग्क् दाने । दनुःदानवमाता । भू सत्तायाम् भुवन:- मेघः, चन्द्रः भवि तव्यता, हंसश्च । क्षणूग् हिंसायाम्, क्षणनुः- यायावरः । 30 उन्दै क्लेदने, उन्दन:-शुकः । णद अव्यक्ते शब्दे नदनु:
मेघः- सिंहश्च । वद वक्तायां वाचि वदतुः- वक्ता । पत्लूं गतौ, पतनुः-श्येन: । आदिग्रहणादन्येऽपि । कित्त्वमकृत्वा डित्करणं वदेदभावार्थम् ।।७१३||
कृशेरानुक् ॥७६४ ॥
कृशच् तनुत्वे, इत्यस्मात् किद् आनुः प्रत्ययो भवति । कृशानुः-वह्निः ।।७६४।
६३
जीवे रदानुक् ॥७६५||
जीव प्राणधारणे, इत्यस्मात् किद् रदानुः प्रत्ययो भवति । जीरदानुः । कित्करणं गुणप्रतिषेधार्थम् । वलोपे हि नाम्यन्तत्वाद् गुणः स्यात् ॥७६५।।
40
वचेरतुः ॥७६६||
वचं भाषणे, इत्यस्मादक्नुः प्रत्ययो भवति । वचक्नुःवाग्मी, आचार्य:, ब्राह्मणः, ऋषिव ॥७६६ ।।
हृषि-पुषि-धुषि-गदि-मदि-नन्दि-गडि मण्डि - जनिस्तनिभ्यो णेरिनुः ॥७७॥
45
एभ्यो ण्यन्तेभ्य इत्तुः प्रत्ययो भवति । हृषंच् तुष्टी, हृष अलीके वा, हर्षयित्नुः -आनन्दः, स्वजनः रङ्गोपजीवी, प्रियंवदा । पुषं च् पुष्टी, पोषयित्नुः - भर्ता मेघः, कोकिलच । घुषूण् विशब्दने, घोषयित्नुः - कोकिलः, शब्दच । गदण् गर्जे, गदयित्नुः - पर्जन्यः, वावदूकः, भ्रमरः कामश्च । 50 मदैच् हर्षे, मदयित्नुः- मदिरा, सुवर्णम्, अलंकारश्च । टुनदु समृद्धी, नन्दयित्नुः पुत्रः, आनन्दः प्रमुदिता । गड सेचने, गयित्नुः - बलाहकः । मड्डु भूषायाम्, मण्डयित्नुः - मण्डयिता, कामुकश्च । जनैचि प्रादुर्भावे जनयित्नुः - पिता । स्तनण् गर्जे, स्तनयित्नु:- मेघः, मेघगर्जितं च ॥७९७||
कतिभ्यामपुक् ॥७६८।
आभ्यां किद् इषुः प्रत्ययो भवति । कस गती, कसिपुः - अशनम् । ऋक् गती, रिपुः - शत्रुः ॥७६८ ||
55
कम्यमिभ्यां बुः ॥७६६॥
आभ्यां बुः प्रत्ययो भवति । कमूङ् कान्तौ कम्बु: - 60 शङ्खः । अम गतौ, अम्बु - पानीयम् ||६||
अरमुः ||८०||
अभ्र गती, इत्यस्मादमुः प्रत्ययो भवति । अभ्रमुःदेवहस्तिनी ॥ ८०० ||
जि- शुन्धि - दहि-दसि जनि-मनिभ्यो युः ॥ ८०१ ॥ 65 एम्योः प्रत्ययो भवति । यजी देवपूजादौ, यज्यु:अग्निः, अध्वर्युः, यज्वा शिष्यश्च । शुन्धु शुद्धौ, शुन्ध्युःअग्निः, आदित्यः पवित्रं च । दहं भस्मीकरणे, दह्य:अग्निः । दसूच् उपक्षये, दस्युः- चौरः । जनचि प्रादुर्भावे, जन्युः - अपत्यं, पिता, वायुः प्रादुर्भावः प्रजापतिः, प्राणी 70 च । मनिच् ज्ञाने मन्युः - कृपा, क्रोधः-शोकः क्रतुश्च 1150211
Aho! Shrutgyanam

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132